अभिनिसित्येतस्मातुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवति अन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम्। अभिनिष्ष्टानो वर्णः, अभिनिस्तानो वर्णः। अभिनिष्ष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः। शब्दसंज्ञायाम् इति किम्? अभिनिस्तनति मृदङ्गः। समासे इति अतःप्रभृति निवृत्तम्।
अनादेशसकारत्वादप्राप्त एव षत्वे वचनम्()। "ष्टन शब्दे" (धा।पा।४६१) इति भौवादिकस्य ग्रहणम्()। "स्तन गदी देवशब्दे" ["गदी परिवेदने" (धा।पा।१८६०)] (धा।पा।१८५९) इत्यतस्य चौरादिकस्य तु न।
तस्य ग्रहणे सत्यदन्तत्वात्? "अत उपधायाः"
७।२।११६ इति न वृद्धिर्लभ्यते। अभि, निस्()--इत्येताभ्यामेवेदं षत्वं विधीयते। न हि व्यस्तभ्यामुत्तरस्य तस्य स्तुनतेर्मूर्धन्षे कृते शब्दसंज्ञा गम्यते। "अभिनिस इत्येतस्मात्()" इत्यादि। अभिनिसिति योऽयमुपसर्गसमवायस्तस्मादित्यर्थः। "अभिनिष्टानः" इति। अभिनिस्तव्यतेऽनेन, "अकर्तरि च कारके संज्ञायाम्()"
३।३।१९ इति घञ्()। प्रादिसमासः।
ननु च समानाधिकारादेवाभिनिःस्तनतीत्यत्र न भविष्यति।
किमेतन्निवृत्त्यर्थेन शब्दसंज्ञाग्रहणेन? इत्यत आह--"समास इत्यतः प्रभुति निवृत्तम्()" इति॥