पूर्वम्: ८।३।७
अनन्तरम्: ८।३।९
 
सूत्रम्
उभयथर्क्षु॥ ८।३।८
काशिका-वृत्तिः
उभयथ र्क्षु ८।३।८

पुर्वेण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतः अम्परे उभयथा ऋक्षु भवति, रुर्वा नकारो वा। तस्मिंस्त्वा दधाति, तस्मिन् त्वा दधाति। ऋक्षु इति किम्? ताम्̐स्त्वं खाद सुखादितान्।
न्यासः
उभयथक्र्षु। , ८।३।८

पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्()॥