पूर्वम्: ८।३।७४
अनन्तरम्: ८।३।७६
 
सूत्रम्
परिस्कन्दः प्राच्यभरतेषु॥ ८।३।७५
काशिका-वृत्तिः
परिस्कन्दः प्राच्यभरतेषु ८।३।७५

परिस्कन्दः इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु। पूर्वेन मूर्धन्ये प्राप्ते तदभवो निपात्यते। परिस्कन्दः। अन्यत्र परिष्कन्दः। अचि निपातनम्। अथ वा निष्थातकारस्य लोपः। भरतग्रहणं प्राच्यविशेषणम्।
न्यासः
परिस्कन्दः प्राच्यभरतेषु। , ८।३।७५

पूर्वेण षत्वविकल्पे प्राप्ते तदभावो विधीयते। "परिष्कन्दः" इति। पचाद्यच्()। "बह्वच इञः प्राच्यभरतेषु" २।४।६६ इत्यत्र प्राचांग्रहणेन भरतानां ग्रहणं न भवतीति ज्ञापितमेतत्()। अतः प्राच्यत्वेऽपि भरतानां पृथग्ग्रहणम्()॥
बाल-मनोरमा
परिस्कन्दः प्राच्यभरतेषु ८३५, ८।३।७५

परिस्कन्दः प्राच्यभरतेषु। "अपदान्तस्य मूर्धन्यः" इत्यधिकारे इदं सूत्रम्। पूर्वेणेति। "परेश्चे"ति पूर्वसूत्रम्। परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः। तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः। परिस्कन्द इति। परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः।

तत्त्व-बोधिनी
प्राच्यभरतेषु ६८४, ८।३।७५

परिस्कन्दः। अचि निपातनम्। अथ वा निष्टातकारस्य लोप इति काशिका।