पूर्वम्: ८।३।६८
अनन्तरम्: ८।३।७०
 
सूत्रम्
वेश्च स्वनो भोजने॥ ८।३।६९
काशिका-वृत्तिः
वेश् च स्वनो भोजने ८।३।६९

वेः उपसर्गातवात् च उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषो ऽभिधीयते, यत्र स्वननम् अस्ति। भोजने इति किम्? विस्वनति मृदङ्गः। अवस्वनति मृदङ्गः।
न्यासः
वेश्च स्वनो भोजने। , ८।३।६९

चकारः "अवात्()" ८।३।६८ इत्यस्यानुकर्षणार्थः। वेरुत्तरस्य स्वनतेरनादेशसकरत्वादप्राप्ते। अवशब्दात्? पुनरनिणन्तत्वाच्चाप्राप्त एवेदमारभ्यते। "अभ्यबहारक्रियाविशेषोऽभिधीयते" इति। अनेन भोजनार्थतां दर्शयति। "विष्वणति" इति। सशब्दं भूङ्क्त इत्यर्थः। अनेकार्थत्वाद्धातूनां स्वनतिरत्राभ्यबहार क्रियाविशेषे वत्र्तते। "यत्र" इत्यादिना तमेव भोजनविशेषं दर्शयति॥
बाल-मनोरमा
वेश्च स्वनो भोजने ११८, ८।३।६९

वेश्च। अवादित्यनुकर्षणार्थश्चकारः। तदाह-- व्यवाभ्यामिति। विष्वणति। अवष्वणति। सशब्दं भुङ्क्ते इत्यर्थ-। अट्कुप्वाङिति णत्वम्।

तत्त्व-बोधिनी
वेश्चस्वनो भोजने ९३, ८।३।६९

वेश्च। विष्वणति सशब्दं भुङ्क्त इत्यर्थः। "अट्कुप्वा"ङिति णत्वम्। एवम्()-- अवष्वणति। व्यष्वणत्। विषष्वाण। "स्थादिष्वभ्यासेन चे"ति षत्वम्। भोजने किम्?। विखनति वीणा।