पूर्वम्: ८।३।६१
अनन्तरम्: ८।३।६३
 
सूत्रम्
सः स्विदिस्वदिसहीनां च॥ ८।३।६२
काशिका-वृत्तिः
सः स्विदिस्वदिसहीनां च ८।३।६२

स्विदि स्वदि सहि इत्येतेषां ण्यन्तानां सनि षभूते परतो ऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति। स्विदि सिस्वेदयिषति। स्वदि सिस्वादयिषति। सहि सिसाहयिषति। सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम्।
न्यासः
स स्विदिस्वदिसहीनां च। , ८।३।६२

"स" इत्यविभक्तिकोऽयं निर्देशः। नेति प्रतिषेध एव क्रियतामित्यादेशनीयम्(); लाघवकृते विशेषाभावात्()। "सिस्वेदयिषति" इत्यादि। "ञिष्विदा गात्रप्रक्षरणे" (धा।पा।११८८) "रुवद स्वर्द आस्वादने" (धा।पा।१८,१९), "षह मर्षणे" (धा।पा।८५२)--एभ्यो णिव्(), ततः सन्()। ननु च सकारस्य सकारविधाने न कश्चिद्विषेषः, तत्किमर्थं सकार उच्यते? इत्याह--"सकारस्य" इत्यादि। य एषां "धात्वादेः षः सः" ६।१।६२ इति सकारः कृतः, तस्यादेशत्वान्मूर्धन्ये प्राप्ते वचनम्()॥
बाल-मनोरमा
सः स्विदिस्वदिसहीनां च १२९२, ८।३।६२

सः स्विदि। सः स्विदीति छेदः। "स्तौतिण्योरेव षण्यभ्यासा"दिति सूत्रं स्तौतिवर्जमनुवर्तते। "सहे साडः सः" इत्यतः स इति षष्ठ()न्तं च। तदाह-- अभ्यासेण इति। सकारविधिर्नियमार्थ इत्याह-- सस्य स एवेति। सुनोतेः सनि "स्तौतिण्योरेवे"ति नियमादुत्तरखण्डस्य षत्वाऽभावे अभिसुसूषतीत्यत्र "उपसर्गात्सुनोती"त्यभ्यासस्य षत्वमाशङ्क्याऽ‌ऽह-- स्थादिष्वेवेति। शैषिकादिति। सन्विधायकसूत्रस्थमिदं वार्तिकम्। शैषिकात्सरूपः शैषिकः प्रत्ययो न। मतुबर्थीयात्सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः। शेषाधिकारे। विहितः शैषिकः। भवार्थे अधायात्मादित्वाठ्ठञ्। मतुबर्थे भवो-- मतुबर्तीयः। गहादित्वाच्छः। मतुबर्थोऽस्यास्तीति मतुबर्थिकः। "अत इनिठनौ" इति ठन्। शालीये इति। शालायां भवः शालीयः। "वृद्धाच्छः"। शालीये भव इत्यर्थे शालीयशब्दात्पुनः छो नेत्यर्थः। आहिच्छत्रे भव इति। आहिच्छत्रशब्दो भवार्थे अणन्तः। ततो भवार्थे "वृद्धाच्छः" इति छ एव भवति नतु पुनरणिति भावः। ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह-- सरूप इत्यनुषज्यते इति। "सन्नन्तान्न सनिष्यते" इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः। नन्वेवमपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह-- अर्थद्वारेति। शब्दतो वैरूप्यस्याऽसंभवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः। तेनेति। इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः। स्वार्थेति। स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः। इति सन्नन्तप्रक्रिया।

॥ इति बालमनोरमायाम् सन्नन्तप्रक्रिया॥

अथ सर्वसमासशेषप्रकरणम्।

--------------------

अथ प्रसङ्गात्सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते--कृत्तद्धितेति। कृदन्ताः, तद्धितघटिताः, समासाः, एकशेषाः, सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः। वृत्तिसामान्यलक्षणमाह--परार्थाभिधानं वृत्तिरिति। "समर्थः पदविधि"रिति सूत्रे भाष्ये स्थितमेतत्। अभिधानमिति करणे ल्युट्। सामान्ये नपुंसकम्। विग्रहवाक्यावयवपदार्थेभ्यः। परः=अन्यो योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिरित्यर्थः। प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत्। समुदायशक्तिश्च "समर्थः पदविधि"रिति परिभाषया लभ्या। तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव, "सुप्सुपे"त्यनुवर्त्त्य समासविधानात्, सुबन्तात्तद्धितोत्पत्तेः। वक्ष्यमाणत्वात्। कृतामपि केषाचित् "कर्मण्य"णिति उपपदनिमित्तकानां पदविधित्वमस्त्येव। "सुप आत्मनःक्य"जित्यादीनामपि पदविधित्वमस्त्येव। एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेद्र्वन्द्वविषये तद्विधानादेकार्थीभावोऽस्त्येवेति मञ्जूषादौ विस्तरः। वृत्त्यार्थवबोधकमिति। यद्यपि वृत्तावेव समुदायशक्त्याविशिष्टैकार्थप्रतिपातिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम्, तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम्। परिनिष्ठितत्वादिति। व्याकरणसंस्कृतत्वादित्यर्थः। प्रयोगानर्ह इति। व्याकरमसंस्कृतत्वाऽभावादित्यर्थः। "यथे"त्युदाहरणप्रदर्शने। राज्ञः पुरुष इति। "लौकिकविग्रहवाक्य"मिति शेषः। राजन्-अस्-पुरुषृसु इति। "अलौकिकविग्रहवाक्य"मिति शेषः। अविग्रहो नित्यसमास इति। सौकिकविग्रहवाक्यरहित इत्यर्थः। समासस्य नित्यत्वादिति भावः। अस्वपदेति। समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः। संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव। तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाऽभावाद्गौण इत्याहुः। चतुर्विध इति। अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः। प्रायोवाद इति। "प्राय"सित्यव्ययं बाहुल्ये। बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः। कुत इत्यत आह--अव्ययीभावेति। बहुर्भूतानामपीति। "समासाना"मिति शेषः। प्रायोऽभिप्राय इति। बाहुल्यतात्पर्यक इत्यर्थः। सूपप्रतीति। इह द्वन्द्वे चे"त्यनन्तरं श्रुतम्-"अभावा"दिति पदम्-अव्यीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मतगङ्गं देशः, लोहितगङ्गं देश इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याऽभावादित्यर्थः। अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याऽभावादित्यर्थः। "द्वित्रा" इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याऽभावादित्यर्थः। "दन्तोष्ठ"मित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याऽभावादित्यर्थः। तत्पुरुषविशेषः कर्मधारय इति। "तत्पुरुषः समानाधिकरणः कर्मधारय" इत्युक्तेरिति भावः। तद्विशेषो द्विगुरिति। कर्मधारयविशेष इत्यर्थः। "सङ्ख्यापूर्वो द्विगुः" इत्यादिरिति भावः। अनेकपदत्वमिति। द्वित्रिचतुरादिपदकत्वमित्यर्थः। "अनेकमन्यपदार्थे" इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः। क्वचिदेवेति। "द्व्यह्नजात" इत्यादावित्यर्थः। इत्युक्तमिति। "भाष्यादा"विति शेषः। किंचेति-अव्ययमिदं विशेषान्तरप्रदर्शने। सुपां सुपेति। सुबन्तानां-सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः। अथेति पूर्ववाक्यव्यवच्छेदे। तिङामिति। तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः। सुपेति। सुपेत्यस्यादाहरणं वक्ष्यत इत्यर्थः। राजपुरुष इति। "राज्ञ" इत्यस्य षष्ठ()न्तस्य "पुरुष" इति सुबन्तेन समासः। तिङेति। सुपां तिङेत्यस्योदाहरणं वक्ष्यत इत्यर्थः। पर्यभूषयदिति। "सह सुपे"त्यत्र "सहे"ति योगविभागात्परीति सुबन्तस्य तिङन्तेन समासः। नाम्नेति। सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः। कुम्भकार इति। "उपपदमति"ङिति कुम्भस्येति षष्ठ()न्तस्य कारेति प्रातिपदिकेन समासः, "गतिकारकोपपदानां कृद्भिः सह समास वचनं प्राक् सुबुत्पत्ते"रित्युक्तेरिति भावः। धातुनेति। सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः। कटप्रूरिति। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च" इति वार्तिकेन "प्रु गतौ" इति धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यं, क्विब्विधाविह सप्तमीनिर्देशाऽभावेन उपपदत्वाऽभावात्। अथ सुपां धातुनोदाहरणान्तरमाह--अजरुआमिति। "नमिकम्पिस्म्यजसकमिहि#ंसदीपो रः" इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः। तिङां तिङेति। समासे उदाहरणं वक्ष्यत इत्यर्थः। पिबतखादतेति। मयूरव्यंसकादित्वात्तिङन्तस्य तिङन्तेन समासः। तिङा सुपेति। समासे उदाहरणं वक्ष्यत इत्यर्थः। कृन्तविचक्षणेति। हे विचक्षण !कृन्त=छिन्द्धीत्यर्थः। इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एही डादय इति। अत्र सुपां तिङेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात्समासस्य षड्विधत्वं चिन्त्यम्। पञ्चविधत्वमेव युक्म्, उभयत्रापि सुप्तिङ्घटितत्वाऽविशेषादित्याहुः। अन्ये तु सुपां तिङेत्यनेन सुबन्तपूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम्। तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः।

*****इति बालमनोरमायाम् सर्वसमासशेषः।*****

अथ शैषिकाः प्रकरणम्।

-----------------

तत्त्व-बोधिनी
सः स्विदिस्वदिसहीनां च ४०३, ८।३।६२

नियमान्नेहेति। न चाऽत्र नियमादेव निषेधे "सुनोतेः स्यसनो"रिति सन्विषये निर्विषयं स्यादिति वाच्यम्, अभिसुसूषतेरप्रत्ययः "अभिसुसू"रित्यत्र षत्वनिषेधाय तस्यावश्यकत्वात्। एतच्च काशिकायां स्पष्टम्।

* शैषिकेति। एतच्च श्लोकवार्तिकमिति केचित्। भाष्यमिति बहवः। शेषे भवः शैषिकः। अध्यात्मादित्वाठ्ठञ्। मतुबर्थे रभवो मतुबर्थीयः। गहादित्वाच्छः। मतुबर्थोऽस्यास्तीति मतुबर्थिकः। "अत इनिठनौ" इति ठन्।

इति तत्त्वबोधिन्यां सन्नन्तप्रक्रिया।

कृत्तद्धितसमासेकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। प्रसङ्गादाह--कृत्तद्धितेत्यादि। पञ्च वृत्तय इति। पञ्चानां "वृत्तिः"इति पूर्वचार्याणां संज्ञा इहाप्याश्रीयत इति भावः। तल्लक्षणमाह---परार्थेति। प्रत्ययार्थन्तर्भावेण परपदार्थान्तर्भावेन वा यो विशिष्ट[ऽर्थः] स परार्थः। स चाभिधीयते येन तत्परार्थीभिधानम्। अतएव तिङन्ते वृत्तिर्न भवति, तत्रैकार्थीभावानभ्युपगमात्। अन्यथा "भृदु पचती"त्यादौ फले मृदुत्वान्वयो न स्यात्, "सबिशेषणानां वृत्तिर्न भवति, वृत्तस्य च विशेषणयोगोने"त्यभ्युपगमादित्येके। समर्थसूत्रे कैयटस्त्वाह--"परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः। यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते"इति। अविग्रह इति। लौकिकविग्रहरहित इत्यर्थः। अस्वपदेति। समस्यमानयावत्पदाऽघटित इत्यर्थः। द्वन्द्वबहुब्राईह्रोरेवेति। अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्वहुपदसमासत्वं यतोरेव संभवतीति भावः। क्वचिदेवेति। "व्द्यह्नजात"इत्यादौ। नाम्नेति। प्रातिपदिकेनेत्यर्थः। कुम्भकार इति। अत्र हि सुबुत्पत्तेः प्रागेवोपपदसमासः। कटप्रूः अजरुआमिति। "क्विब्वचिप्रच्छी"ति वार्तिके, "नमिकम्पी"ति सूत्रे च "कटप्रूः" "अजरुआ"मिति निपातनाद्धातुना समासः। पिबतखादतेति॥ "आख्यातमाख्यातेने"ति मयूरव्यंसकादौ पाठात्समासः।

इति तत्त्वबोधिन्यां सर्वसमासशेषः।