पूर्वम्: ८।३।४८
अनन्तरम्: ८।३।५०
 
सूत्रम्
छन्दसि वाऽप्राम्रेडितयोः॥ ८।३।४९
काशिका-वृत्तिः
छन्दसि वा ऽप्राऽम्रेडितयोः ८।३।४९

छन्दसि विषये विसर्जनीयस्य वा सकारादेशोः भवति कुप्वोः परतः, प्रशब्दम् आमेर्दितं च वर्जयित्वा। अयःपात्रम्, अयस्पात्रम्। विश्वतःपात्रम्, विश्क्तस्पात्रम्। उरुणःकारः, उरुणस्कारः। अप्राम्रेडितयोः इति किम्? अग्निः प्रविद्वान्। परुषः परुषस्परि। सूर्यरश्मिर्हरिकेशः पुरस्तात्, स नः पावक इत्येवम् आदिषु सर्वे विषयश्छन्दसि विकल्प्यन्ते इति सत्वं न भवति।
न्यासः
छन्दसि वाऽप्राम्रेडितयोः। , ८।३।४९

"अयस्पात्रम्()" इति षष्ठीसमासे कृते "अतः कृकभि" ८।३।४६ इत्यादिना नित्ये षत्वे प्राप्तेऽनेन विकल्पो विधीयते। एवं "वि()आतस्पात्रम्()" इत्यादावपि यदि समासः, तदा प्राप्ते। "उरुणस्कारः" इत्यत्राप्यसमासत्वादेवा प्राप्ते। उरुशब्दात्? परस्यास्मच्छब्दस्य "बहुवचनस्य वस्नसौ" ८।१।२१ इति नसादेशः, "नश्च धातुस्थोरुषुभ्यः" ८।४।२६ इति णत्वम्()। अथेह "हरिकेशः पुरस्तात्()" (ॠवे।१०।१३९।१), स नः पावक (ऋ।वे।१।१२।१०) इत्यादौ च कस्मान्न भवति? इत्याह--"हरिकेश" इत्यादि॥