पूर्वम्: ८।३।१०४
अनन्तरम्: ८।३।१०६
 
सूत्रम्
स्तुतस्तोमयोश्छन्दसि॥ ८।३।१०५
काशिका-वृत्तिः
स्तुतस्तोमयोश् छन्दसि ८।३।१०३

एकेषाम् इति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवति एकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टोमं षोडशिनम्, गोस्तोमं षोडशिनम्। पूर्वपदातित्येव सिद्धे प्रपञ्चार्थम् इदम्।
न्यासः
युष्मत्तत्ततक्षुष्वन्तःपादम्?। , ८।३।१०५

अयमापि पदान्तार्थ आरम्भः। "अन्तःपादम्()" इति। पादस्य मध्ये। विभक्त्यर्थेऽव्ययीभावसमासः। पादग्रहणेन ऋक्पादश्लोकपादयोः सामान्येन ग्रहणम्()। तकारादित्वं त्विह युष्मद एव विशेषणम्(), नेतरयोः; अव्यभिचारात्()। युष्मच्छब्दस्यापि त्वादिष्वादेशेषु तकारादित्वं भवतीत्यत आह--"युष्मदादेशाः" इत्यादि। "अग्निष्ट्वम्()" इति। "त्वाहौ सौ" ७।२।९४ इति त्वादेशः, "ङ प्रथमयोरम्()" ७।१।२८ इति सोरम्भावः, "शेषे लोपः" ७।२।९०। "अग्निष्ट्वः" इति। "त्वामौ द्वितीयायाः" ८।१।२३ इति द्वितीयान्तस्य त्वादेशः। "अग्निष्टे" इति। "तेमयावेकवचनस्य" ८।१।२२ इति षष्ठ()न्तस्य तयादेशः। "अग्निष्टव" इति। "तवममौ ङसि" ७।२।९६ इति तदादेशः, "युष्मदस्मद्भ्यां ङसोऽक्ष्()" ७।१।२७। "अग्निष्टत्()"[ण्स्वग्ने सधिष्टव--इति काशिकायामुदाहरणम्(), "अग्निष्ट्व"--इति कांउ।पाठः] इति। तच्छब्दोऽयं निपातः। सर्वनाम वा। "निष्टतक्षुः" इति। तक्षेर्लिट्(), उस्()। "अग्निस्तत्पुनः" इति। अग्निशब्दोऽत्र पूर्वपदस्यान्ते वत्र्तते। तेनायं सकारः पादस्यान्ते वत्र्तते, न पादमध्ये॥