पूर्वम्: ८।२।९५
अनन्तरम्: ८।२।९७
 
सूत्रम्
अङ्गयुक्तं तिङ् आकाङ्क्षम्॥ ८।२।९६
काशिका-वृत्तिः
अङ्गयुक्तं तिङाकाङ्क्षम् ८।२।९६

अङ्ग इत्यनेन युक्तं तिङन्तम् आकाङ्क्षं भर्त्सने प्लवते। अङ्ग क्ज३, अङ्ग व्याहर३, इदानीं ज्ञास्यसि जाल्म। तिङिति किम्? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षम् इति किम्? अङ्ग पच। न एतदपरमाकाङ्क्षति। भर्त्सने इत्येव, अगाधीष्व, ओदनं ते दास्यमि।
न्यासः
अङ्गयुक्तं तिङाकाङ्क्षम्?। , ८।२।९६

"आकाङ्क्षम्()" इति। आकाङ्क्षति अपेक्षत इत्याकाङ्क्षम्(), पचाद्यच्()। "अङ्ग कूज३" इत्यादि। अङ्गकूज ३, अङ्ग व्याहर ३--इत्येतदुभयमपि "इदानीं ज्ञास्यति जाल्म" इत्येतदपेक्षते। "अङ्ग देवदत्त" इत्येतदपि "मिध्या वदसि" इत्येतत्()। "अधीष्व" इत्येतदपि "ओदनं ते दास्यामि" इत्येतत्()। "नैतदपरमाकाङ्क्षति" इति। विवक्षितार्थस्य परिसमाप्तत्वात्()। अथ युक्तग्रहणं किमर्थम्(), यावता पदविधित्वादेव योगो विज्ञास्यते। एवं तर्हि युक्तग्रहणं कुर्दन्नेतज्ज्ञापयति--"समर्थः पदविधिः" २।१।१ इत्येषा परिभाषाऽनित्या। तेनाऽसूर्यम्पश्यानि मुखानीति नञोऽसत्यपि सूर्यशबह्देन सामर्थ्ये समासः सिद्धो भवति॥