पूर्वम्: ८।२।५८
अनन्तरम्: ८।२।६०
 
सूत्रम्
भित्तं शकलम्॥ ८।२।५९
काशिका-वृत्तिः
भित्तं शकलम् ८।२।५९

भित्तम् इति निपात्यते शकलं चेत् तद् भवति। भित्तं तिष्ठति। भित्तं प्रपतति। शकलपर्यायो ऽयम्। अत्र भिदिक्रिया शब्दव्युत्पत्तेरेव निमित्तम्। भिदिक्रियाविवक्षायां हि शकलविषये भिन्नम् भित्तम् इत्येव भवति।
न्यासः
भित्तं शकलम्?। , ८।२।५९

"भित्तमिति निपात्यते" इति। किं निपात्यते? रदाभ्यामिति ८।२।४२ नत्वे प्राप्ते तदभाव इति। "शकलं चेत्तद्भवति" इति। शकलशब्दस्य योऽर्थः, खमण्ड इति यस्यापरमभिधानम्(), भित्तशब्दस्यापि यदि स एवार्थो भवतीत्यर्थः। कथं पुनर्भित्तशब्दस्य शकलमर्थो भवति? इत्याह--"शकलपर्यायोऽयम्()" इति। भित्तशब्दः शकलस्यैव पर्यायः। तस्माद्यथा शकलशब्दस्य शकलमभिधेयं भवति, एवं भित्तशब्दस्यापि। ननु च शकलशब्दोऽयं जातिशब्दः; जातिप्रव-त्तिनिमित्तमुपादाय स्वाभिदेये प्रवृत्तत्वात्(); भित्तशब्दस्तु क्रियाशब्दः, क्रियाप्रवृत्तिनिमित्तत्वात्(); तथा हि--भिदेर्विदारणार्थात्? क्ते विहिते भित्तमिति निपात्यते, न च क्रियाशब्दो जातिशब्दपर्याय उपपद्यते? इत्याह--"अत्र" इत्यादि। शब्दव्युत्पत्तिः=शब्दसंस्कारः, तस्या एवात्र भित्तशब्दे भिदिक्रियानिमित्तत्वाम्(); न तु तत्प्रवृत्तेः; असत्त्वात्()। जातिरेव तु तत्प्रवृत्ति प्रति निमित्तम्(); तस्या विद्यमानत्वात्()। तस्माच्छकलशब्दवद्भित्तशब्दोऽपि जातिशब्द एव; न क्रियाशब्द इति युक्ता तस्य तत्पर्यायता। यदि तह्र्रसत्येवात्र भिदिक्रिया, शब्दसंस्कारत्वस्यापि सा निमित्तं नोपपद्यते? नैतदस्ति; न ह्रयं नियोगोऽभिधीयते--विद्यमानैव क्रिया शब्दसंस्कारस्य निमित्तं भवतीति। तथा हि तैलपायिकाशब्दो यत्र प्राणिविशेषे रूढः, तत्र तैलपानक्रियाशब्दोऽपि नास्ति; तथापि तैलपानक्रिया तत्संस्कारनिमित्तत्वेनाश्रीयते। कथं पुनर्भित्तशब्दो भिदिक्रियाप्रवृत्तिनिमित्तं न भवति? इत्याह--"भिदिक्रियाविवक्षायां हि" इत्यादि। अत्र भिन्नमित्यस्य च भित्तशकलशब्दाभ्यां प्रत्येकमभिसम्बन्धः। तेन "भिन्नं भित्तमित्येव भवति" इति। एतत्? प्रयोगद्वयमपि भिदिक्रियादिवक्षायां सिद्धं भवति। विदीर्णे हि शकले तस्य विदीर्णतां प्रतिपादयितुं भिन्नम्(), भित्तमित्येष प्रयोगो भिदिक्रियाविवक्षायां क्रियते। यदि च भित्तशब्द क्रियाप्रवृत्तिनिमित्तं स्यात्(), ततो भित्तशब्देनैव भिदिक्रियानिमित्तकेन विदीर्णता शकलस्य प्रतिपाद्यत इत्येष प्रयोगो नोपपद्यते, न हि तदस्ति यस्य भित्तशब्देनाप्रतिपादितस्य भिन्नशब्दयोगो भवेत्()। भिन्नं शकलमित्येष च प्रयोगो नोपपद्यते; शकलव्युत्पादितेन भित्तशब्देन भिदिक्रियानिमित्तकेन भिन्नशब्दस्य बाधितत्वात्()। अस्ति चायं द्विविधोऽपि प्रयोगः, तस्गाद्भित्तशब्दस्य भिदिक्रियानिमित्तत्वं न गम्यते॥
बाल-मनोरमा
भित्तं शकलम् ८४९, ८।२।५९

भित्तं शकलम्। शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते। शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम्। ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः। भिदिक्रियाविवक्षायां तु "भित्तं भिन्न"मिति भवतीति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
भित्तं शकलम् ६९५, ८।२।५९

भित्तं शकलम्। भिदेः क्ते "रदाभ्या"मिति प्राप्तनत्वस्याऽभावो निपात्यते। "भित्तं शकलखण्डे वा" इत्यमरः। भिन्नमन्यदिति। विदीर्ममित्यर्थः।