पूर्वम्: ८।२।५४
अनन्तरम्: ८।२।५६
 
सूत्रम्
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः॥ ८।२।५५
काशिका-वृत्तिः
अनुपसर्गात् फुल्लक्षीबकृशौल्लाघाः ८।२।५५

फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति। फुल्लः इति ञिफला विशरणे इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते। उत्वमिडभावश्च सिद्ध एव। क्तवत्वन्तस्य अप्येतल् लत्वम् इष्यते, फुल्लः, फुल्लवानिति। क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्याम् उत्पूर्वाच् च लाघेः क्त प्रत्ययस्य तलोपः इडभावश्च निपात्यते। कृते व इटि इच्छब्दलोपः। क्षीबः। कृशः। उल्लाघः। अनुपसर्गातिति किम्? प्रफुल्ताः सुमनसः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाधितः। लाघेरुदो ऽन्यः उपसर्ग प्रतिषिध्यते। उत्फुल्लसम्फुल्लयोरिति वक्तव्यम्। उत्फुल्लः। सम्फुल्लः। परिकृशः इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति।
न्यासः
अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः। , ८।२।५५

"फुल्लः" इति। "ञिफला विशरणे" (धा।पा।५१६), "आदितश्च" ७।२।१६ इतीट्()प्रतिषेधथः, "उत्परस्यातः" ७।४।८८ इत्युत्त्वम्()। "क्तवत्वन्तस्याप्येतल्लत्वमिष्यते" इति। कथं पुनरिष्ययाणमपि लभ्यते, न हि क्तवत्वन्तः शब्दः सूत्र उपात्तः? उच्यते; इह निष्ठायास्तकारान्तं यच्छब्दरूपं तस्य "फुल्ल" इत्येतन्निपात्यते, क्तवतोश्च ["क्तक्तवतोश्च" इति काशीमुद्रितः पाठः] तत्? तुल्यम्()। परस्तु यदि क्तवतोऽर्थो वा विशेष्यते? विशेष्यताम्, न हि तेन समानेनासमानेन वा परयोजनमस्ति। तस्मात्? क्तवत्वन्तस्याप्येतल्लत्वं भवति। एवमनयैव युक्त्या क्षीबकृशोल्लाघादिष्वपि यन्निपात्यते, तदपि क्तवत्वन्तस्य प्रसज्यते()["प्रसज्येत"--इति कांउ।पाठः] नैष दोषः; वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च न ज्ञायते, तेनातिप्रसङ्गो न भविष्यतीति। "क्षीविकृशिभ्याम्()" इति। "क्षीबृ मदे" (धा।पा।३८२), "कृश तनूकरणे" (धा।पा।३८२), "कृश तनूकरणे" (धा।पा।१२२७)। "इडभावश्च निपात्यते" इति। क्तलोपस्यासिद्धत्वाद्वलादिरार्धधातुको भवतीतीट्? प्राप्नोति; अतस्तदभावश्च निपात्यते। "कृते वा इटि इच्छब्दलोपः" इति। निपात्यत इति सम्बन्धः। इडभावापेक्षो विकल्पः। अथ वा--नेडभावो निपात्यते। किं तर्हि? कृत इटीच्छब्दलोपः। "लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते" इति। उत्पूर्वस्य ग्रहणसामर्थायत्()। अन्यथा ह्रुत्पूर्वस्योपादानमनर्थकं स्यादित्यभिप्रायः। अनुपसर्गादित्युच्यते, तत्र परिकृश इति न सिध्यति? इत्यत आह--"परिकृश इत्यत्र" इत्यादि। तनूकरणलक्षणक्रियाया अन्यक्रिया गमनलक्षणा क्रियान्तरम्(), तेन योगोऽयम्(), न परिशब्दः, अतर कृशिं प्रत्युपसर्गसंज्ञा भवतीति कृत्वा। "परिगतः कृशः" इति। अनेन तं क्रियान्तरयोगं दर्शयति। अथ किमर्थं निपातनम्(); यावता फुल्ल इति "फुल्ल विकसने" (धा।पा।५३२) इत्यस्मात्? पचाद्यचि सिध्यति, क्षीबेरिगुपधलक्षणे के--क्षौव इति, कृश इत्यपि कृशेरचैव, उल्लराघ इति--लाघ इत्येव पचाद्यचि सिद्ध्यत्येव? सत्यमेवैतत्(); निष्ठायां तु फलतिप्रभृतीनामसत्यस्मिन्ननिष्टं रूपं प्राप्नोति। अतस्तन्निवृत्त्यर्थमारब्धध्यमेतत्()॥
बाल-मनोरमा
अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ८४२, ८।२।५५

अनुपसर्गात्। एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः। लत्वमिति। "आदितश्चे"ति इडभावः, "ति चे"त्युत्त्वं च सिद्धमिति भावः। "फल निष्पत्तौ" इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः। ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह-- क्तवत्वेकदेशस्यापीति। क्षीबादिष्विति। क्षीबकृशोल्लाघेष्वित्यर्थः। क्तप्रत्ययस्यैवेति। नतु क्तवत्वेकदेशस्यापीत्यर्थः। अनर्थकत्वादित भावः। तस्येति। तलोपस्येत्यर्थः। क्षीबो मत्त इति। क्षीबेः क्तः, तलोपः, इडभावश्च। अत्र मत्तादिरेवार्थः, निपातनबलात्। अनुपसर्गात्किमिति। अत्र "प्रफुल्त" इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह--

तत्त्व-बोधिनी
अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ६९०, ८।२।५५

क्षीबादिष्विति। क्षीबृ मदे,कृश तनुत्वे, लाघृशक्तावुत्पूर्वः, एभ्यः क्तः। ननु फुल्ल विकसन इत्यस्मादुल्लाघेश्च पचाद्यचि इतराभ्यामिगुपधलक्षणे कप्रत्यये च फुल्लादयः सिध्यन्ति त()त्क सूत्रेणेत्यत आह-- सूत्रं त्विति।