पूर्वम्: ८।२।५१
अनन्तरम्: ८।२।५३
 
सूत्रम्
पचो वः॥ ८।२।५२
काशिका-वृत्तिः
पचो वः ८।२।५२

पचेः धातोरुत्तरस्य निष्थातकारस्य वकारादेशो भवति। पक्वः। पक्ववान्।
लघु-सिद्धान्त-कौमुदी
पचो वः ८२५, ८।२।५२

पक्वः॥ क्षै क्षये॥
न्यासः
पचो वः। , ८।२।५२

"पक्वः, पक्ववान्()" इति। "डुपटचष्? पाके" (धा।पा।९९६)। यद्येवम्(), पक्व इत्यतत्? "सिद्धशुष्कपक्वबन्धैश्च" २।१।४० इति निपातनादपि हि सिध्यति; तथापि पक्ववानित्येतदर्थमिदमवश्यमारब्धव्यम्()। अन्यार्थं चारभ्यमाणं पक्व इत्येतदर्थरूपमपि भवतीति पस्वशब्दोऽस्योदाहरणमुपन्यस्तम्()। निपातनद्वारेण हि तद्व्युत्पत्तौ प्रतिपत्तिगौरवं स्यादित्यभिप्रायः॥
बाल-मनोरमा
पचो वः ८३८, ८।२।५२

पचो वः। पचेः परस्य निष्टातस्य वः स्यादित्यर्थः। पक्व इति। वत्वस्याऽसिद्धत्वात्कुत्वम्।