पूर्वम्: ८।२।११
अनन्तरम्: ८।२।१३
 
सूत्रम्
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती॥ ८।२।१२
काशिका-वृत्तिः
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ८।२।१२

आसन्दीवतष्ठीवत् चक्रीवत् कक्षीवत् चर्मण्वती इत्येतानि संज्ञायां निपात्यन्ते। वत्त्वं पूर्वेण एव सिद्धम्, आदेशाथानि निपातनानि। आसन्दीवतिति आसनशब्दस्य आसन्दीभावो निपात्यते। आसन्दीवान् ग्रामः। आसन्दीवदहिस्थलम्। आसनवानित्येव अन्यत्र। अपरे तु आहुः, आसन्दीशब्दो ऽपि प्रकृत्यन्तरम् एव अस्ति, तथा चोक्तम्, औदुम्बरी राजासन्दी भवति इति। तस्य संज्ञायाम् ८।२।११ इति वत्त्वेन सिद्धम्। आसन्दीवतित्येत प्रपञ्चार्थम् इह पठ्यते। अष्ठीवतिति अस्थ्नो ऽष्ठीभावः। अष्ठीवानिति शरीरैकदेशसंज्ञा। अस्थिमानित्येव अन्यत्र। चक्रीवतिति चक्रशब्दस्य चक्रीभावो निपात्यते। चक्रीवान् राजा। चक्रवानित्येव अन्यत्र। चक्रीवन्ति सदो हविर्धानानि भवन्ति इत्येतत् तु छान्दसत्वादनुगन्तव्यम्। कक्षीवतिति कक्ष्यायाः सम्प्रसारणं निपात्यते। कक्षीवान् नाम ऋषिः। कक्ष्यावानित्येव अन्यत्र। रुमण्वतिति लवणशब्दस्य रुमण्भावो निपात्यते। लवणवानित्येव अन्यत्र। अपरे तु आहुः, रुमनिति प्रकृत्यन्तरम् अस्ति, तस्य एतन् निपातनं नकारलोपाभावार्थम्, णत्वार्थं च। मतोर् वा नुडर्थम् इति। चर्मण्वती इति चर्मणो नलोपाभावो णत्वं च निपात्यते। मतोर् वा नुडागमः। चर्मण्वती नाम नदी। चर्मवती इत्येव अन्यत्र।
न्यासः
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती। , ८।२।१२

अथाष्ठीवदिति किमर्थं निपात्यते, यावतोर्वष्ठीवमित्यस्मादेव निपातनात्? (५।४।७७) एतत्सिद्धम्()? एवं मन्यते--द्वन्द्व एवैतन्निपातनमिति तत्रैव स्यात्(), इह तु निपातनं क्रियमाणं सर्वविषयं भविष्यतीति। कथं पुनज्र्ञायते--आसन्दीशब्दः प्रकृत्यन्तरं विद्यते? इत्याह--"तथा चोक्तम्" इत्यादि। यदि तर्हि तत्रैव संज्ञायामिति वत्वे च ८।२।११ सिद्धमासन्दीवदिति, तत्किमर्थमिह पठ()ते? इत्याह--"आसन्दीवत्()" इत्यादि। "तत्प्रयञ्चार्थम्()" इति। यदि तर्हि चक्रीवदिति संज्ञायामेतन्निपातनम्(), कथं चक्रीवन्ति सदोहविर्धानानि भवन्तीति, न हीयं संज्ञा? इत्यात आह--"चक्रीवन्ति" इत्यादि। छन्दसि ह्रयं प्रयोगः, तत्र "व्यत्ययो बहुलम्()" ३।१।८५ इति वर्णव्यत्ययेनाकारस्येकारे कृते "छन्दसीरः" (८।२।१५) इति मतोर्वत्वे चक्रीवन्तीत्येतत्? सिध्यति। तस्माच्छान्दसत्वादेवमेतत्? साधुत्वेनानुगन्तव्यम्()। "कक्षीवान्()" इति। "हलः"["हलि च" इति सूत्रम्()] ८।२।७७ इति दीर्घः। "नलोपाबावार्थम्()" इति। "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नकारलोपः प्रापनोति, स मा भूदित्येवमर्थम्()। "णत्वर्थं च" इति। "पदान्तस्य" ८।४।३६ इति णत्वप्रतिषेधः प्राप्नोति, अतो णत्वार्थञ्च निपातनम्()। "मतोर्वा नुडर्थमिति" इति। वाशब्दो विकल्पार्थः। थ वा--नैव नकारलोपाभावार्थं निपातनम्(), नापि णत्वार्थम्(), किं तर्हि? मतोर्नुडर्थम्()। नुटि कृते नलोपे सत्यपि सिध्यत्येवेष्टम्(), णत्वप्रतिषेधस्य प्रार्प्नास्त्येव; अपदान्तत्वात्()। "अट्कुप्वाङ्()" ८।४।२ इति णत्वं भवति॥
न्यासः
परेश् घाङ्कयोः। , ८।२।१२

"परिधः" इति। पर उपपदे हन्तेर्धातोरप्प्रत्ययः। हलोपः, धत्वञ्च निपात्यते, उपपदसमासः। "पर्यङ्कः" इति "अकि लक्षणे" (धा।पा।८७) इत्यस्मात्? पचाद्यच, "हलश्च" ३।३।१२१ इति वा घञ्(), प्रादिसमासः--परिगतोऽङ्कः पर्यङ्कः। [नास्ति--कांउ।पुस्तके] ननु च [नास्ति--कांउ।पुस्तके]"घ" इति तरप्तमपोरपीयं संज्ञा, स्वं रूपं शब्दस्य" १।१।६७ इति स्वरूपग्रहणं प्रतिषिष्यते, तत्किमिति घरूप एव लत्वमुदाह्यियते? इत्याह--"घ इति स्वरूपग्रहणमत्र" इति। एवं मन्यते--अङ्क इत्यनेनासंज्ञाशब्देन साहचार्यद्घ इत्यस्याप्यसंज्ञाशब्दस्यैव ग्रहणमिति। "योगे चेति वक्तव्यम्()" इति। योगशब्दे च परतः परेर्विकल्पेन [परविकल्पेन--कांउ।पाठः] लत्वं भवतत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन योगेऽपि भविष्यतीति।
बाल-मनोरमा
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वतो १८७५, ८।२।१२

आसन्दीवत्। समाहारद्वन्द्वे ह्यस्वत्वम्। निपात्यन्त इति। आसन्दीभावादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम्। कक्ष्यायाः सम्प्रसारणमिति। "निपात्यते" इति शेषः। "न सम्प्रसारणे" इति सूत्रभाष्ये तु "कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं वक्तव्य"मित्यारब्धम्। अतोऽत्र सूत्रे कक्षीवच्छब्दपाठोऽनार्ष इत्याहुः।