पूर्वम्: ८।२।१०५
अनन्तरम्: ८।२।१०७
 
सूत्रम्
प्लुतावैच इदुतौ॥ ८।२।१०६
काशिका-वृत्तिः
प्लुतावैच इदुतौ ८।२।१०६

दूराद्धूतादिषु प्लुतो विहितः। तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ। ऐ३तिकायन। औ३पमन्यव। अत्र यदेवर्णोवर्णयोः अवर्णस्य च संविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते। प्लुतौ इति हि क्रियानिमित्तो ऽयं व्यपदेशः। इदुतौ प्लवेते वृद्धिं गच्छतः इत्यर्थः। तावती च सा प्लुतिर् भवति यया तावेचौ त्रिमात्रौ सम्पद्येते। यदा तु अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति। भष्ये तु उक्तम्, इष्यते एव चतुर्मात्रः प्लुतः इति। तत् कथम्? समप्रविभागपक्षे इदुतोरनेन त्रिमात्रः प्लुतो विधीयते।
न्यासः
प्लुतावैच इदुत्तौ। , ८।२।१०६

"दूराद्धूते च" ८।२।८४ इत्येवमाविभिर्लक्षणैः प्लुतो विधीयमानः "अचश्च" १।२।२८ इत्यस्योपस्थाने सति यत्रैव प्लुत उक्तः, तत्र तस्यैवैचः समुदायात्मनः स्यात्(), तदवयवयोरेवेष्यते। स च वचनमन्तरेण न सिध्यतीतीदमारभ्यते। तस्य तु प्लुतस्य निमित्तं दूराद्धूतादेवैचः प्रसङ्ग इति पूर्वेण प्रकरणेन प्लुतस्य प्राप्तौ सत्यामित्यर्थः। "ऐ३तिकायन्(), औ३पमन्यव" इति। अत्र "गुरोरनृतीः" ८।२।८६ इत्यादिना एचः प्लुते प्राप्तेऽनेन तदवयवयोरिदुतोः प्लुतः क्रियते। ऐ३तिकायन, औ३पमन्यवेत्यत्र यद्यैचोरवयवयोरिदुतोः प्लुतः क्रियते, तत्रैकारीकारौ चतुर्मात्रौ साद्र्धत्रिमात्रो वा प्राप्नुतः। इह ह्रौचौ समाहारवर्णौ; मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः। अपरे त्वाहुः--अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णोवर्णयोरिति। अत्र पर्वस्मिन्? दर्शनेऽनेन प्लुते कृते सति इदुतोस्तिरुआओ मात्राः, अवर्णस्य चैकमात्रेति चतुमत्रिः प्राप्नोति; इतरत्र तु दर्शनेऽवर्णस्यार्धमात्रा, इदुतीस्तु ता एव तिन्न इति सार्धत्रिमात्रः प्राप्नोतीत्यत आह--"अत्र यदा" इत्यादि। ननु च त्रिमात्रस्य "प्लुत इति संज्ञा कृता, तत्कथं द्वित्रिमात्रावपि प्लृतौ शक्यावनेन कर्त्तुम्()? इत्यत आह--"प्लुतावविति हि" इत्यादिना। एतेन लौकिकस्यात्र प्लुतस्य ग्रहणम्(), न पारिभाषिकस्येति दर्शयति। कुतः पुनरेतल्लभ्यते? पुनः प्लुतग्रहणमनर्थकं स्यात्(), लोके हि च प्लुतो वृद्धिमानुष्यते। अत एवाह--"इदुत्तौ वृदिं()ध गच्छत इत्यर्थः" इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वृद्धावपि वत्र्तते। नन्वेवमप्यनियमेन वृद्धिः प्रसज्यते; इयत्तानभिधानात्(); ततश्च यावती वृद्धिः स्यात्(), याक्त्या चतुर्मात्रार्वचौ सम्पद्येयातामिति? अत ["अत्राह"--कांउ।पाठः] इत्यादि। प्लुतिर्वृद्धिरित्यर्थः। कथं पुनरयं नियमो लभ्यते? एवं मन्यते--ऐच इति प्लुतापेक्षया षष्ठी। इदुतौ तथा प्लवेते यथा स प्लुत एङोर्भवति; एवञ्चंचोर्भवति यदि तावती वृद्धिर्भवति यावत्या तावैचौ त्रिमात्रौ सम्पद्येते। अकृतायां हि वृद्धौ ऐच्त्वमेव स्यात्(); युक्तपरिमाणत्वादैचाम्(), ततश्चैच्सम्बन्धी प्लुतो न स्यादिति। "अर्धतृतीयमात्रौ" इति। अर्धतृतीयं ययोर्मात्रयोस्तेऽर्धतृतयमात्रे, ते ययोस्तावर्धतृतयमात्रौ। इदं तावद्वार्त्तिककारमतमाश्रित्य समाधानमुक्तम्()। भाष्यकारस्य त्विष्टैव चतुर्मात्रता प्लुतस्येति दर्शयन्नाह--"भाष्ये तूक्तम्()" इत्यादि। "तत्कथम्()" इति। यदि तत्? भाव्यकारस्य मतं तत्? केन प्रकारेण सम्पद्येत? इत्येतत्? पृच्छति। "सम्परविभागपक्षे" इत्यादिना यथा तत्? सम्पद्यते तथा दर्शयति। समप्रविभागपक्षे ह्रनेन सूत्रेणेदुतोस्त्रिमात्रः प्लुतः क्रियते, ततश्च तत्सम्बन्धिन्यो यास्मिरुआओ मात्रा या च पूर्वाकारमात्रा ताः सर्वाः समाह्मताश्चतरुआओ मात्रा भवन्ति। एवञ्च चतुर्मात्रः प्लुतो भवति। अत्र भाष्यकारदर्शने पुनः प्लुतग्रहणं सर्वत्र प्लुतोपसंग्रहार्थम्(); अन्यथा स्वरितप्रकरणात्? तस्यैव प्रसङ्गे सत्येवेदुतोरिवं प्लुतिः स्यात्()। पुनः प्लुतग्रहणे तूदात्तानुदात्तयोरपि भवति। तपरकरणं मुखमुखार्थम्()॥ चोन्तिन्॥ंओवेम्बेर् fइले