पूर्वम्: ८।१।५१
अनन्तरम्: ८।१।५३
 
सूत्रम्
लोट् च॥ ८।१।५२
काशिका-वृत्तिः
लोट् च ८।१।५२

लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। लोडन्तयोरेकं कारकं यदि भवति इत्यर्थः। आगच्छ देवदत्त, ग्रामं पश्य। आगच्छ विष्णुमित्र, ग्रामं शाधि। आगम्यतां देवदत्तेन, ग्रामो दृश्यतां यज्ञदत्तेन। गत्यर्थानाम् इत्येव, पच देवदत्तौदनम्, भुङ्क्ष्व एनम्। लोटा इत्येव, आगच्छेः देवदत्त ग्रामम्, पश्य एनम्। न चेत् कारकं सर्वान्यतित्येव, आगच्छ देवदत्त ग्रामम्, पश्यतु एनम् यज्ञदत्तः। सर्वग्रहणानुवृत्तेस्तु इह भवत्येव, आगच्छ देवदत्त ग्रामम् त्वं चाहं च पश्याव। पृथग्योगकरणम् उत्तरार्थम्।
न्यासः
लोट्? च। , ८।१।५२

चकारः पूर्वापेक्षया समुच्चयार्थः। "पश्य" इति। अन्तोदात्तम्()--"एकादेश उदात्तेनोदात्तः" ८।२।५ "अतो गुणे" ६।१।९४ इति गुणग्रहणे पररूपस्येवोदात्तत्वात्()। "शाधि" इति। "शासु अनुशिष्टौ" (धा।पा।१०७५), "सेह्र्रपिच्च" ३।४।८७ इति सिपो हिरादेशः, अदादित्वाच्छपो लुक्(); "शा हौ" ६।४।३५ इति धातोः शादेशः, "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति हेर्धिभाव-। प्रत्ययस्वरेणान्तोदात्तमेतत्()। एवं दृश्यतामित्येदपि; "विकरणस्वरात्? सार्वधातुकस्वरो बलीयान्()" इति वचनात्()। अथ पृथग्योगकरणं किमर्थम्(), न पूर्वसूत्र एव लोङ्ग्रहणमपि क्रियेत? इत्यत आह--"पृथक्()" इत्यादि। उत्तरत्र लोट एव कार्यं यथा स्यात्(), लृटो मा भूदित्येवमर्थं पृथग्योगकरणम्()॥