पूर्वम्: ८।१।४९
अनन्तरम्: ८।१।५१
 
सूत्रम्
शेषे विभाषा॥ ८।१।५०
काशिका-वृत्तिः
शेषे विभाषा ८।१।५०

आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तम् शेषे विभाषा भवति। कश्च शेषः? यदन्यदननतरात्। आहो देवदत्तः पचति, पचति। उताहो देवदत्तः पचति, पचति। आहो देवदत्तः पठति, पठति। उताहो देवदत्तः पठति, पठति।
न्यासः
शेषे विभाषा। , ८।१।५०

शेषः सन्निहितापेक्षः। शेषत्रयञ्च पूर्वसूत्रे सन्निहतं निघातकारणम्--आहो उताहोशब्दौ, अनन्तर मित्येतत्(), अपूर्वमित्येतच्च। तत्र न ज्ञायते--किं कारणभावापेक्षः शेष इति। किमाहोउताहोशब्दापेक्षः? उतानन्तरभावापेक्षः? आहोस्विदपूर्वभावापेक्षः()--इत्यतः पृच्छति--"कश्च शेषः" इति। इह निघातमिच्छता तत्कारणमवश्यमेवापेक्षणीयम्()। "आहो उदाहो" इति। अपूर्वमित्येतदपि, द्विश्चकारेणानुकृष्टत्वात्()। तस्य हि द्वयोर्योगयोश्चकारोऽनुकर्षणार्थ एव कृतः। कथं नामात्रापि तदपेक्षा स्यादिति! अन्यथा हि समनन्तरातीति एव सूत्रे तदनुकर्षणार्थश्चकारः क्रियते। किंवृत्तादिसूत्रे ८।१।४८ हि स्वरितत्वादेव तदनुवत्र्तत इति। तस्मात्? पारिशेष्यादनन्तरभावपेक्षः शेषो विज्ञायते? इत्यत आह--"यदन्यदनन्तरात" इति॥