पूर्वम्: ८।१।४५
अनन्तरम्: ८।१।४७
 
सूत्रम्
एहिमन्ये प्रहासे लृट्॥ ८।१।४६
काशिका-वृत्तिः
एहि मन्ये प्रहासे लृट् ८।१।४६

एहि मन्ये इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे। प्रकृष्टो हासः प्रहासः, क्रीडा। एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तः सो ऽतिथिभिः। एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्तेन ते पिता। प्रहासे इति किम्? एहि मन्यसे ओदनं भोक्ष्ये इति। सुष्ठु मन्यसे। साधु मन्यसे। गत्यर्थलोटा लृटित्येव सिद्धे सत्यारम्भो नियमार्थः, एहिमन्येयुक्ते प्रहासे एव यथा स्यात्, अन्यत्र मा भूतिति , एहि मन्यसे ओदनं भोक्ष्ये इति। एहि मन्ये इत्युत्तमोपादानम् अतन्त्रम्। प्रहासे एव हि मन्यतेरुत्तमो विहितः, ततो ऽन्यत्र मध्यम एव भवति। तत्र अनेन नियमेन निवृत्तिः क्रियते, एहि मन्यसे ओदनं भोक्ष्ये इति।
न्यासः
एहिमन्ये प्रहासे लृट्?। , ८।१।४६

"एहिमन्य इत्यनेन" इति। समुदायस्यैकत्वात्? तदपेक्षयैकवचनम्(), अन्यथा हि द्वे एते आख्याते इति द्वित्वाद्()द्विवचनं स्यात्()। "प्रहासः" इति। प्रकृष्टो हासः; परिहास इत्यर्थः। "एहि मन्य ओदनं भोक्ष्यसे" इति। "प्रहासे च मन्योपदे" १।४।१०५ इति पुरुषव्यत्ययः। भुजेरस्मद्युपपदे मध्यमः, मन्यतेर्युष्मद्युपपदे उत्तमः। "एवम एहि मन्ये रथेन यास्यसि" इत्यत्रापि पुरुषव्यत्ययो वेदितव्यः। द्वे अपि चैते लृङन्ते स्यप्रत्ययस्वरेण मध्योदात्ते। "प्रहास इति किम्()? एहि मन्यस ओदनं भोक्ष्ये" इति। अत्र मन्यतेः "यष्मद्युपपदे" १।४।१०४ इत्यादिना मध्यमः। भुजेस्तु "अस्मद्युत्तमः" १।४।१०६ इत्युत्तमः। सुष्ठु मन्यसे, साधु मन्यसे" इति। अनेन यथाभूतं दर्शयत्? प्रहासाभावं दर्शयति। ननु च "गत्यर्थलोटा लृट्()" ८।१।५१ इत्यादिनैव सिद्धम्(), तत्? किमर्थोऽयमारम्भः? इत्यत आह--"गत्यर्थलोटा" इत्यादि। "एहिमन्येयुक्ते" इत्यादिना नियमार्थतामस्य व्यक्तीकरोति। कथं पुनरेहिमन्य इत्येनेन योगेन नियमः क्रियमाणः "एहि मन्यसे ओदनं भोक्ष्ये" इत्यत्र निवृत्ति करोति, न ह्रतर पहीत्यनेव लृडन्तं युक्तम्(), किं तर्हि? एहि मन्यस इत्यनेन? इत्यत आह--"एहि मन्य इत्युत्त्मोपादानमतन्त्रम्()" इति। अतन्त्रत्वं तु तस्योपलक्षणार्थत्वात्()। ननु च "मन्यतेरुत्तमः" १।४।१०५ इति वचनाद्युष्मद्युपपदे मन्यतेरुत्तमेनैव भवितव्यम्(), एवञ्च "एहि एव हि मन्यतिरुत्तमः" इति। गतार्थम्()॥