पूर्वम्: ८।१।३०
अनन्तरम्: ८।१।३२
 
सूत्रम्
नह प्रत्यारम्भे॥ ८।१।३१
काशिका-वृत्तिः
नह प्रत्यारम्भे ८।१।३१

नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्य अविधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारंहः क्रियते। नह भोक्ष्यसे। नह अध्येष्यसे। प्रत्यारम्भे इति किम्? नह वै तस्मिंश्च लोके दक्षिणाम् इच्छन्ति।
न्यासः
न ह प्रत्यारम्भे। , ८।१।३१

नहेत्ययं निपातसमुदायः प्रतिषेधे वत्र्तते। तेन युक्तं तिङन्तं प्रत्यारम्भविषये न निहन्यते। पुनरारम्भः=प्रत्यारम्भः। स च यत्र विषये क्रियते तद्दर्शयितुमाह--"चोदितस्य" इत्यादि। भुङक्ष्याधीष्वेत्येवं चोदितं विहितं यत्? कत्र्तव्यतयोपन्यस्तं भोजनादौ यदा तत्? कर्त्तुं न प्रवत्र्तते नाद्रियते, अवधीर्यत इति यावत्(); तदा तस्यादधीरणेऽदज्ञाने सति तमवधीरयितारमुपालब्धुं या इच्छा तथोपालिप्सयैतस्यैव भोजनादेरवधीरितस्य प्रतिषेधेन सम्बन्धः प्रत्यारम्भः। "प्रत्यारम्भः क्रियते" इति। प्रतिषेधसम्बद्धस्य पुनरुपन्यासः क्रियत इत्यर्थः। "नह भोक्ष्यसे, नहाध्येध्यसे" इति। भुजेरिङश्च लृट्(), "थासः से" ३।४।८० , अदुपदेशत्वात्? ङित्त्वाच्च तयोर्धात्वोर्लसार्वधातुकमनुदात्तम्()। स्यः प्रत्ययस्वरेणोदात्तः। "इच्छन्ति" इति। "इषु इच्छायाम्()" (धा।पा।१३५), तुदादित्वाच्छ, "डषुगमियमां छः" ७।३।७७