पूर्वम्: ७।४।६३
अनन्तरम्: ७।४।६५
 
सूत्रम्
कृषेश्छन्दसि॥ ७।४।६४
काशिका-वृत्तिः
कृषेश्छन्दसि ७।४।६४

कृषेः छन्दसि विषये यङि परतः अभ्यासस्य चुः न भवति। करिकृष्यते यज्ञकुणपः। छन्दसि इति किम्? चरीकृष्यते कृषीवलः।
न्यासः
कृषेश्छन्दसि। , ७।४।६४

"करीकृष्यते" इति। "कृष विलेखने" (धा।पा।९९०) "रीगृहुपधस्य" ७।४।९० इति रीगागमः॥