सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यय इत्त्वम् इडागमो वा प्रत्ययस्य निपात्यते। गर्भं माता सुधितम्। सुहितम् इति प्राप्ते। वसुधितम् अग्नौ जुहोति। वसुहितम् इति प्राप्ते। नेमधिता बाधन्ते। नेमहिता इति प्राप्ते। धिष्व इति लोण्मध्यमैकवचने दधातेः इत्त्वम् इडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते। धिष्व स्तोमम्। धत्स्व इति प्राप्ते। धिषिय इति आशीर्लिङि आत्मनेपदोत्तमैकवचने दधातेः इत्त्वम्, इडागमो वा प्रत्ययस्य निपात्यते। धिषीय। धासीय इति प्राप्ते।
चकारेण छन्दसीत्यनुकृष्यते। "इडागमो वा" इति। यदेडागमस्तदा "आतो लोप इटि च"
६।४।६४ इत्याकारलोपः। "सुधितम्()" इति, "कुगतिप्रादयः"
२।२।१८ इति समासः। "वसुधितम्()" इति। विशेषणसमासः। पूर्ववदाकारलोपः। "नेमधितम्()" इति। "सामि"
२।१।२६ इति द्वितीयासमासः। सामीति तत्रार्थग्रहणमित्युक्तम्()। नेमशब्दश्चायं सामिशब्दपर्यायः। "धिष्व" इति। "थासः से"
३।४।८०, "सवाभ्यां वामौ"
३।४।९१ इति वकारः। "द्विर्वचनाभावः" इति। "श्लौ"
६।४।११२ इत्यकारलोपः; घकारस्य "खरि च"
८।४।५४ इति चत्र्वम्()--तकारः, "दधस्तथोश्च"
८।२।३८ इत्यभ्यासस्य भष्भावेन धकारः। "धिषीय" इति। आशिषि लिङ्(), "इटोऽत्()"
३।४।१०६ इत्यत्त्वम्()॥