पूर्वम्: ७।४।२२
अनन्तरम्: ७।४।२४
 
सूत्रम्
उपसर्गाद्ध्रस्व ऊहतेः॥ ७।४।२३
काशिका-वृत्तिः
उपसर्गाद् ध्रस्व ऊहतेः ७।४।२३

उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः। समुह्यते। समुह्य गतः। अभ्युह्यते। अभ्युह्य गतः। उपसर्गातिति किम्? ऊह्यते। ऊहतेः इति किम्? समीह्यते। यि इत्येव, समूहितम्। क्ङिति इत्येव, समूह्यो ऽयम् अर्थः। अणः इत्येव, आ ऊह्यते ओह्यते। समोह्यते।
न्यासः
उपसर्गाद्ध्रस्व ऊहते। , ७।४।२३

"समुह्र गतः" इति। "ऊह वितर्के" (धा।पा।६४८)। यद्यपि यजादित्वात्? किति सम्प्रसारणेनैतत् सिध्यति, तथाप्यूहेरपि दीर्घस्याश्रवणं तथा स्यादित्येवमर्थमिदं ह्यस्वविधानम्()। "समीह्रते" इति। "ईह चेष्टायाम्()" (धा।पा।६३२)। "समूहितः" इति। क्तः। "समूहयोऽयमर्थः" इति। "ऋहलोण्र्यत्()" ३।१।१२४। "अण इत्येव" इत्यादि। "केऽणः" ७।४।१३ इत्यतोऽण्ग्रहणमनुवत्र्तते। "आ उह्रते ओह्रते, समोह्रते" इति। ह्यस्वत्वं न भवति। यद्यव्ग्रहणमनुवत्र्तते, तदा ह्यस्वविधानमनर्थकं स्यात्(), उपसर्गादूहतेरुदिति वक्तव्यम्()? नानर्थकम्(); उत्तारार्थत्वात्--"एतेलिङि" (७।४।२४) इति वक्ष्यति, तत्र "ह्यस्वः" इत्येतस्यानुवृत्तिर्यथा स्यात्()॥
बाल-मनोरमा
उपसर्गाद्ध्रस्व ऊहतेः ५२५, ७।४।२३

उपसर्गाद्ध्रस्व ऊहतेः। "यादौ क्ङिति" इति शेषपूरणम्। "अयडि() क्ङिति" इत्यतस्तदनुवृत्तेरिति भावः। ब्राहृ समुह्रादिति। ऊह वितर्के। सम्यग्विचारयेदित्यर्थः। अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्यस्वः। अ()ग्न समुह्रेति। परितः संमृज्येत्यर्थः। क्त्वादेशस्य ल्यपः कित्त्वमिति भावः।