पूर्वम्: ७।३।९७
अनन्तरम्: ७।३।९९
 
सूत्रम्
रुदश्च पञ्चभ्यः॥ ७।३।९८
काशिका-वृत्तिः
रुदश् च पञ्चभ्यः ७।३।९८

रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति। अरोदीत्। अरोदीः। अस्वपीत्। अस्वपीः। अश्वसीत्। अश्वसीः। प्राणीत्। प्राणीः। अजक्षीत्। अजक्षीः। पञ्चभ्यः इति किम्? अजागर्भवान्। अपृक्तस्य इत्येव, रोदिति।
न्यासः
रुदश्च पञ्चभ्यः। , ७।३।९८

"रुदः" इति सुब्व्यत्ययेन बहुवचनस्यैकवचनम। एतचच "पञ्चभ्यः" इति बहुवचनाद्विज्ञायते। "रुदादिभ्यः सार्वधातुके" ७।२।७६ इतीटि प्राप्ते तदपवाद ईडागमो विधीयते। "रुदिर्? अश्रुविमोचने" (धा।प।१०६७), "ञिष्वप्? शये" (धा।पा।१०६८), "()आस प्राणने" (धा।पा।१०६९), "अन च" (धा।पा।१०७०), जक्ष भक्षहसनयोः" (धा।पा।१०७१)-इत्येते रुदादय आदादिकाः। "अरोदीत्()" इति। लङ्। "प्राणीत्()" इति। "अनितेः" ८।४।१९ इति णत्वम्()। "अजागर्भवान्()" इति। "अजागर्भवान्()" इति। जागर्त्तिः पञ्चभ्यः परेणायं पठ()ते। गुणे रपरत्वे च कृते हल्ङ्यादिलोपः ६।१।६६
बाल-मनोरमा
रुदश्च पञ्चभ्यः ३०६, ७।३।९८

रुदश्च। "नाभ्यस्तस्य" त्तः पिति सार्वधातुके इति, "उतो वृद्धि"रित्यतो हलीति, "गुणोऽपृक्ते" इत्यतोऽपृक्ते इति, "ब्राउव ई"डित्यत ईडिति चानुवर्तते। "रुद" इति पञ्चमी। "रुदादिभ्य" इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति-- हलादेरित्यादिना।