पूर्वम्: ७।३।८
अनन्तरम्: ७।३।१०
 
सूत्रम्
पदान्तस्यान्यतरस्याम्॥ ७।३।९
काशिका-वृत्तिः
पदान्तस्य अन्यतरस्याम् ७।३।९

श्वादेः अङ्गस्य पदशब्दान्तस्य अन्यतरस्यां यदुक्तं तन् न भवति। श्वपदस्य इदम् श्वापदम्, शौवापदम्।
न्यासः
पदान्तस्यान्यतरस्याम्?। , ७।३।९

पूर्वेण नित्ये प्राप्ते प्रतिषेधे विकल्प उच्यते। "पदान्तस्य" इति। पदशब्दान्तस्येत्यर्थः। "()आआपदम्()" इति। शुन इव पदमस्येति ()आपदः, तस्येदं ()आआपदम्()। "शौवापदम्()" इति। "अन्येषामपि दृश्यते" ६।३।१३६ इति दीर्घः॥
बाल-मनोरमा
पदान्तस्यान्यतरस्याम् १५४०, ७।३।९

प्रसङ्गादाह--पदान्तस्यान्यतरस्याम्। "()आआदेरिञी"त्यस्यमादुत्तरं सूत्रमिदम्। पदं-पदशब्दोऽन्तो यस्येति विग्रहः। तदाह--पदशब्दान्तस्येति ऐज्वेति। निषेधविकल्पे सति विधिविकल्पः। फलित इति भावः। ()आआपदस्येति। शुनः पदमिव पदं यस्येति विग्रहः। "शुनो दन्तदंष्ट्रे"त्यादिना दीर्घः। शौवापदमिति। "तस्येद"मित्यण्। "वृद्धाच्छः" इति तु न , अनभिधानादित्याहुः। अन्ये तु ()आपुच्छवद्दीर्घाऽभावे अणमाहुः।

तत्त्व-बोधिनी
पदान्तस्यान्यतरस्याम् ११९६, ७।३।९

()आआपादस्येति। "अन्येषामपि दृश्यते"इति दीर्घः। धावुक इति वेतनादिगणे धनुर्दण्डेति पठ()ते, तच्च सङ्घातविगृहीतार्थम्। तथा च "धानुर्दण्डिकः", "दाण्डिक" इत्यप्युदाहार्यम्।