पूर्वम्: ७।३।६
अनन्तरम्: ७।३।८
 
सूत्रम्
स्वागतादीनां च॥ ७।३।७
काशिका-वृत्तिः
स्वागताऽदीनां च ७।३।७

स्वागत इत्येवम् आदीनां यदुक्तं तन् न भवति। स्वागतम् इत्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्य अपत्यम् स्वङ्गिः। व्यङ्गस्य अपत्यम् व्याङ्गिः। व्यडस्य अपत्यम् व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दो ऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः। स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतदिः।
न्यासः
स्वागतादीनाञ्च। , ७।३।७

"स्वागतिकः" इति। शोभनमागतं स्वागतम्()। "तदाहेत्यादौ प्रभूतादिब्य उपसंख्यानम्()" (वा।४८३) इति ठक्। "स्वाध्वरिकः" इति। अत्रापि "चरति" ४।४।८ इति ठक्()। शोभनोऽध्वरः स्वध्वरः। "स्वाङ्गिः" इत्यादि। "स्वाङ्गिण्र्याडिः" इति। "अत इङ्()" ४।१।९५। शोभनान्यङ्गान्यस्य स्वङ्गः, विगतान्यङ्गान्यस्य व्यङ्गः, विगतोऽडोऽस्य व्यङः। व्यवहरणं व्यवहारः, भावे घञ्()। ननु च व्यवहारशब्दोऽयं क्रमव्यतीहारे वत्र्तते, तत्र "न कर्मव्यतीहारे" ७।३।६ इति प्रतिषेधः सिद्धः, तत्? कस्मादिह पठ()ते? इत्याह--"व्यवहारशब्दोऽयम्()" इति। किं पुनर्लौकिकम्()? लौकिकं पुनर्वृत्तं येनाचारेण व्यवहाराल्लोके व्यावहारिक इत्युच्यते तद्वेदितव्यम्()। "स्वापतेयम्()" इति। "पथ्यतिथिवसतिस्वपतेढैञ्()" ४।४।१०३। कथं पुनरत्र प्राप्तिः, यावता नास्य वकारः पदन्तः? इत्याह--"द्बारादिषु स्वशब्दपाठादस्य प्राप्तिः" इति। तदादिविधिनेत्यभिप्रायः। यता तदादिविधिर्भवति तथा तत्रैवोक्तम्()॥
बाल-मनोरमा
स्वागतादीनां च १५२८, ७।३।७

स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह--स्वागतादीनां च। "न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच" इति प्रकरणे "न कर्मव्यतिहारे" इत्यस्मादुत्तरं सूत्रमिदम्। ऐज्न स्यादिति। शेषपूरणमिदम्। "न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच" इति प्राप्त ऐज्न स्यादित्यर्थः। स्वाध्वरिक इति। स्वध्वर इत्याहेत्यर्थः। अथ स्वागतादिगणशेषमुदाहरति--स्वङ्गस्येति। व्याङ्गिरिति। व्यङ्गस्यापत्यमिति विग्रहः। व्यडस्येति। न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः। स्वापतेयमिति। "पथ्यतिथिवसतिस्वपतेर्ढञ्"। द्वारादित्वादैच् प्राप्तो निषिध्यते।

आहाविति। आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः। तदिति पूर्ववार्तिकादनुवर्तते। आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः। पार्याप्तिक इति। पर्याप्तमाहेत्यर्थः।

पृच्छताविति। "त"दित्यनुवर्तते। पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः। सौखशायनिक इति। सुखशयनं पृच्छतीत्यर्थः। अनुशतिकादिरिति। "सुखशयनशब्द" इति शेषः। ततश्च "अनुशतिकादीनां चे"ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः।

गच्छताविति। तदित्यनुवर्तते। गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः। पारदारिक इति। परदारान्गच्छतीत्यर्थः। गौरुतल्पिक इति। गुरुतल्पं गच्छतीत्यर्थः। गुरुतल्पो=गुरुस्त्री।

तत्त्व-बोधिनी
स्वागतादीनां च ११८९, ७।३।७

स्वपतेयमिति। "पथ्यतिथि वसतिस्वपतेर्ढञ"। स्वशब्दस्य द्वारादित्वादैजागमस्य प्राप्तिः। द्वारादित्वफलं तु स्वस्येदं "सौव"मिति ज्ञेयम्।

आहौ प्रभूतादिभ्यः। आहाविति। "उपसङ्ख्यान"मित्यनुषज्यते। आहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेण "आहा"वित्यनुकरणम्। प्राभूतिक इति। क्रियाविशेषणाद्वक्तरि प्रत्ययः।