पूर्वम्: ७।३।५९
अनन्तरम्: ७।३।६१
 
सूत्रम्
अजिवृज्योश्च॥ ७।३।६०
काशिका-वृत्तिः
अजिव्रज्योश् च ७।३।६०

अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति। समाजः। उदाजः। व्रजि परिव्राजः। परिव्राज्यम्। अजेस् तु अजेर् व्यघञपोः २।४।५६ इति वीभावस्य विधानात् ण्यति न अस्ति उदाहरणम्।
न्यासः
अजिव्रज्योश्च। , ७।३।६०

"समाजः उदाजः" इति। "अज गतिक्षेपणयोः" (धा।पा।२३०)। "समुदोरजः पशुषु" ३।३।६९ इति घञ्()। "परिव्राजः, परिव्राज्यम्()" इति। "वज व्रज गतौ" (धा।पा।२५२,२५३)। अथाजेण्र्यति कस्मादुदाहरणं नोपन्यस्तम्()? इत्याह--"वीभावस्य" इत्यादि। तत्र "अजेव्र्यघञपोः" २।४।५६ इति वीभावस्य विधानमिति; तेन तस्योदाहरणं नोपपद्यते, ततो न दर्शितमित्यभिप्रायः। चकारोऽनुक्तसमुच्चयार्थः, तेन वजेरपि प्रतिषेधो भवति--वाजः, वाच्यमिति॥
बाल-मनोरमा
अजिव्रज्योश्च ६९६, ७।३।६०

अजिव्रजय्श्चेत्यादि स्पष्टम्।

तत्त्व-बोधिनी
अजिव्रज्योश्च ५७७, ७।३।६०

समाज इति। "अज गतिक्षेपणयो"रित्यस्माद्धञि "चजो"रिति कुत्वे प्राप्तेऽयं निषेधः। एवं व्रजेरपि।