अभाषितपुंस्कातातः स्थाने यो ऽकारः तस्य आचार्याणाम् आकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका।
नञ्पूर्वाणामपीत निवृत्तम्(); पूर्वसूत्रे चानुकृष्टत्वात्()। इत्त्वापवादोऽयं योगः। "केऽणः"
७।४।१३ इति ह्यस्वपवादश्च।
आचार्यग्रहणं नित्यार्थम्()। असति हि तस्मिन्(); "उदीचाम्()"
७।३।४६ इत्यधिकाराद्विकल्पः स्यात्()। आचार्यग्रहणे तु सति तेन "उदीचाम्()" इत्येतस्मिन्निवर्त्तिते, नित्य एष विधिर्भवतीति॥
आदाचार्याणां। पूर्वसूत्रविषय इति। अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः। शुभ्रिकेति। शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः। ततः स्त्रियां टापि शुभ्राशब्दात्कः। "केऽणः" इति ह्यस्वः, पुनष्टाप्। अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः। किं तु "प्रत्ययस्था"दिति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह--यूनस्तिरित्यभिव्याप्येति। "यूनस्तिः" इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः। अत्र च व्याख्यानमेव शरणम्।
अत्र यद्वक्तव्यं तत् "यूनस्तिः" इत्यत्र वक्ष्यते। ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यः "टिड्ढाणञि"त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्। तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह--अयमेवेति। अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः। एतच्च भाष्ये स्पष्टम्। तत्फलं तु "वनो र चे"त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम्। ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम्।