पूर्वम्: ७।२।५३
अनन्तरम्: ७।२।५५
 
सूत्रम्
लुभो विमोचने॥ ७।२।५४
काशिका-वृत्तिः
लुभो विमोहने ७।२।५४

लुभो विमोहने ऽर्थे वर्तमानात् क्त्वानिष्ठयोः इडागमो भवति। लुभित्वा, लोभित्वा। विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि। विमोहनम् आकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः ७।२।४८ इति विकल्पः, निष्ठायाम् यस्य विभाषा ७।२।१५ इति प्रतिषेधः प्राप्तः। विमोहने इति किम्? लुब्धो वृषलः। शीतेन पीडितः इत्यर्थः। लुब्ध्वा, लुभित्वा, लोभित्वा। गार्ध्ये यथाप्राप्तम् एव भवति।
न्यासः
लुभो विमोहने। , ७।२।५४

"लुभित्वा, लोभित्वा" इति। "रलो च्युपधात्()" १।२।२६ इत्यादिना पक्षे कित्ताद्गुणाभावो भवत्येव। "गार्धेये यथाप्राप्तमेव" इति। क्वाप्रत्यये विकल्पः। निष्ठायां "यस्य विभाषा" ७।२।१५ इति नित्यः प्रतिषेध इति॥
बाल-मनोरमा
लुभो विमोहने ८५५, ७।२।५४

लुभो विमोहने। "लुभ" इति पञ्चमी। "लुभ विमोहने" तुदादिः। "विमोहनं व्याकुलीकरण"मिति वृत्तिः। "लुभ गाध्र्ये" दिवादिः। अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात्। नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात्। तदाह-- न तु गाध्र्ये इति। "तीषसहे"ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तु "यस्य विभाषे"ति निषेधे प्राप्ते वचनम्। लुभित इति। विमोहित इत्यर्थः। गाध्र्ये तु लुब्ध इति। अभिकाङ्क्षवानित्यर्थः। "मतिबुद्धिपूजार्थेभ्यश्चे"ति कर्तरि क्तः।

तत्त्व-बोधिनी
लुभो विमोहने ७०१, ७।२।५४

लुभो। "तीषसहे"ति क्त्वायां विकल्पे, निष्ठायां निषेधे च प्राप्ते वचनम्।