पूर्वम्: ७।२।४६
अनन्तरम्: ७।२।४८
 
सूत्रम्
इण्निष्ठायाम्॥ ७।२।४७
काशिका-वृत्तिः
इण् निष्ठायाम् ७।२।४७

निरः कुषो निष्ठायाम् इडागमो भवति। निष्कुषितः। निष्कुषितवान्। इङ्ग्रहणं नित्यार्थम्। आरम्भो हि यस्य निभाषा ७।२।१५ इत्यस्य बाधकः, अन्यथा हि निकल्पार्थ एव स्यात्। अत्र एव नित्यम् इडागमः, उत्तरत्र विकल्प एव इति।
न्यासः
इण्निष्ठायाम्?। , ७।२।४७

किमर्थमिडिति वत्र्तमाने पुनरिङ्ग्रहणं क्रियते? इत्याह--"इड्ग्रहणं नित्यार्थम्()" इति। असतीङ्ग्रहणे हि विकल्पस्य प्रकृतत्वात्? पाक्षिक इडविधिः स्यात्()। तस्मान्नित्यर्थमिङ्ग्रहणं कत्र्तव्यम्()। ननु च सिद्धा विभावा पूर्वसूत्रेण, आरंभसामथ्र्यादेव नित्योऽयं विधिर्भवतिष्यति? इत्याह--"आरम्भो हि" इत्यादि। पूर्वसूत्रेणेटो विकल्पितत्वान्निष्ठायां, "यस्य विभाषा" ७।२।१५ इति प्रतिषेधे प्राप्ते नित्योऽयमारम्भः। तत्र यदीङ्ग्रहणं न क्रियेत, तदा तस्यैव प्रतिषेधस्यायमारम्बो बाधकः स्यात्(), ततश्च विकल्प एव स्यात्(), न नित्यो विधिः। तस्मान्नित्यार्थमिङ्ग्रहणं कत्र्तव्यम्()। यदि हि नित्यार्थमिङ्ग्रहणं क्रियेत तदा तेन विकल्पस्य निवर्त्तितत्वादुत्तरत्रापि नित्य एव विधिः स्यादित्यत आह--"तत्रेव" इत्यादि। न चानेनेङ्ग्रहणेन विकल्पः शक्यते निवत्र्तयितुम्(); तस्य स्वरितत्वादिङ्ग्रहणसामथ्र्यात्()। अनुवत्र्तमानेऽपि वाग्रहणे नित्योऽयं विधिर्भवति। या तु तस्यैव विकल्पस्यानुवृत्तिः, सोत्तरार्था। तेनोत्तरत्र विकल्प एव॥
बाल-मनोरमा
इण्निष्ठायाम् ८५२, ७।२।४७

इण्निष्ठायाम्। "निरः कुषः" इति सूत्रमनुवर्तते। तदाह-- निर इति। ननु "आद्र्धधातुकस्ये"डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह-- यस्येति। कुषधातोस्तृजादौ "निरः कुषः" इति पूर्वसूत्रेण वेट्कत्वात् "यस्य विभाषे"ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः। इडित्यनुवत्र्तमाने पुनरिड्ग्रहणं तु "स्वरतिसूती"त्यतो वाग्रहणानुवृत्तिनिवृत्तये।

तत्त्व-बोधिनी
इण्निष्ठायाम् ६९८, ७।२।४७

यस्येति। "निरः कुषः" इति विकल्पितेट्()त्वादिति भावः।