पूर्वम्: ७।२।३९
अनन्तरम्: ७।२।४१
 
सूत्रम्
सिचि च परस्मैपदेषु॥ ७।२।४०
काशिका-वृत्तिः
सिचि च परस्मैपदेषु ७।२।४०

परस्मैपदपरे सिचि वृ̄त उत्तरस्य इटो दीर्घः न भवति। प्रावारिष्टाम्। प्रावारिषुः। अतारिष्टाम्। अतारिषुः। आस्तारिष्टाम्। आस्तारिषुः। परस्मैपदेषु इति किम्? प्रावरिष्ट, प्रावरीष्ट।
लघु-सिद्धान्त-कौमुदी
सिचि च परस्मैपदेषु ६१९, ७।२।४०

अत्र इटो न दीर्घः। अपारिष्टाम्। अपरिष्यत्, अपरीष्यत्॥ ओहाक् त्यागे॥ ५॥ जहाति॥
न्यासः
सिचि च परस्मैपदेषु। , ७।२।४०

"प्रावारिष्टाम्()" इति। "तस्थस्थमिपां तान्तन्तामः" ३।४।१०१ इति तसस्ताम्(), सामान्यविहित इट्? सिचि वृद्धिः। "प्रावारिषुः" इति। "सिजभ्यस्तविदिभ्यश्च" ३।४।१०९ इति झेर्जुस्()। वृङ उदाहरणं नोपन्यस्तम; तस्य परस्मैपदासम्भवात्()। "प्रावरिष्ट, प्रावरीष्ट" इति। "लिङ्सिचोरात्मनेपदेषु" ७।२।४२ इतीट्()॥
तत्त्व-बोधिनी
सिचि च परस्मैपदेषु २०१, ७।२।४०

सिचि च। "न लिङी"त्यतो नेत्यनुवर्तनादाह--इटो दीर्घो नेति।