पूर्वम्: ७।२।२०
अनन्तरम्: ७।२।२२
 
सूत्रम्
प्रभौ परिवृढः॥ ७।२।२१
काशिका-वृत्तिः
प्रभौ परिवृढः ७।२।२१

परिवृढ इति निपात्यते प्रभुश्चेद् भवति। परिवृढः कुटुम्बी। पूर्वेण तुल्यम् एतत्। वृंहेर् निपातनम्। वृहिश्च यदि प्रकृतियन्तरम् अस्ति तस्य अपि तदेव सर्वम्। हलोपनिपातनस्य च तदेव प्रयोजनम्। परिव्रढयति। परिव्रढ्य्य गतः। पारिवृढी कन्या। परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्य्पद्यते। संग्रामयतेरेव सोपसर्गाण् णिजुत्पत्तिरिष्यते न अन्यस्मातिति। तथा सति परिव्रढयति इति तिङ्ङतिङः ८।२।२८ इति निघातः। परिव्रढय्य इत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति। प्रभौ इति किम्? परिवृंहितम्। परिवृहितम्।
न्यासः
प्रभौ परिवृढः। , ७।२।२१

"पूर्वेण समानम्()" इति। निपातनस्येडभावादेस्तुल्यत्वात्()। यथैव हि पूर्वस्मिन्? सूत्रे क्तप्रत्यये कृते हकारनकारस्योर्लोप इडभावश्च परस्य ढत्वं निपातितम्(), तथेहापि तत्सर्व निपात्यते। "वृंहेर्निपातनम्()" इति। "वृहि वृद्धौ" ["बृहि"--धा।पा।] (धा।पा।७३६) इत्यस्य। "वृहिश्च यदि प्रकृत्यन्तरमस्ति ततस्तस्यापि" इति। निपातनमेतदिति कृतेन सम्बन्धः। प्रकृत्यन्तरास्तित्वं तु "वृह वृद्धौ"["बृह"--धा।पा।] (धा।पा।७३५) इति कैश्चिदुक्तम्()। "तदेव प्रयोजनम्()" इति। पूर्वत्रासिद्धत्वनिवृत्तिः। "परिव्रझयति" इति। अत्र ढलोपे सति पूर्ववद्रेफो न स्यात्()। "परिव्रढय्य गतः" इति। हलोपनिपातने तु भवन्त्येते दोषाः। "परिव्रढमाचष्टे" इत्यादि। कथं पुनः परिवृढशब्देन विग्रहे कृते णिचो वृ शब्दादेवोत्पततिर्लभ्यते? इत्याह--"संग्रामयतेः" इत्यादि। "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (धा।पा।ग।सू।१८६) इत्यनेनैव णिचि सिद्धे "संग्रामे" इत्यस्य सोपसर्गस्य गणे यः पाठः स नियमार्थः--संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिर्यथा स्यात्(), अन्यत्र मा भूदिति। तदेवं संग्रामयतेरेव यस्मात्? सोपसर्गाण्णिजुत्पत्तिरिष्यते, नान्यस्मात्()। तस्माद्? यद्यपि "परिवृढमाचष्टे" इति विग्रहः क्रियते, तथापि वृढशब्दाण्णिजुत्पत्तौ सत्यां लकारो भवन्नयं णिज्? यतो विहितस्तदादेरेव भवति प्रत्ययग्रहणपरिभाषया; "सनाद्यन्ता धातवः" ३।१।३२ इति तदादेरेव धातुसंज्ञाविधानात्()। तेन परेस्तिङन्तग्रहणेनाग्रहणात्? ततोऽतङन्तात्? पदात्? परस्य तिङन्तस्य पदस्य परिव्रढयतीत्यत्र "तिङ्ङतिङः" ८।१।२८ इति निघातस्वरः सिद्धो भवति। यदि पुनः परिवृढशब्दाण्णिजत्पद्यते तदा लकारोऽपि निघातो न स्यात्()। किञ्च--यदा वृढशब्दाण्णिजुत्पद्यते न परिवृढशब्दात्(), तदा क्त्वाप्रत्ययोऽपि वृढशब्दाण्णिजन्ताद्भवति। तेन परिशब्दस्य क्तान्तेन सम्रथेन शब्दान्तरेण "कुगतिप्रादयः" २।२।१८ इति समासे कृते परिव्रढय्येत्यत्र ल्यबादेशः सिद्धो भवति। परिवृढशब्दाण्णिजुत्पत्तौ क्त्वाप्रत्ययोऽपि परिवृढशब्दादेव णिजन्तादुत्पद्यते, ततः समासो न स्यात्(); कुगतिप्रादयः समर्थेन शब्दान्तरेण समस्यन्ते, न चात्र परेः परं क्तान्तं शब्दान्तरमस्ति। एकमेव हीदं क्तान्तं परिणा सह शब्दरूपम्(); तत्रैव परिशब्दस्यान्तर्भावात्()। असति च समासे "समासेऽनञ्पूर्वे" ७।३।१७ इत्यादिना ल्यबादेशो न स्यात्()। "परिवृंहितम्()" इति। वृंहेः प्रत्युदाहरणम्()। "परिवृहितम्()" इति। वृहेः॥
बाल-मनोरमा
प्रभौ परिबृढः ८६८, ७।२।२१

प्रभौ परिबृढः। प्राग्वदिति। तकारढत्वसय् हलोपस्य चेत्यर्थः।

तत्त्व-बोधिनी
प्रभौ परिबृढः ७१३, ७।२।२१

प्रभौ। निपातनमिति। हलोपे प्रयोजनमपि व्रढिमा परिव्रढय्येत्यादिसिदिधरिति प्राग्वदेव बोध्यम्।