पूर्वम्: ७।१।६
अनन्तरम्: ७।१।८
 
सूत्रम्
वेत्तेर्विभाषा॥ ७।१।७
काशिका-वृत्तिः
वेत्तेर् विभाषा ७।१।७

वेत्तेरङ्गादुत्तरस्य झादेशस्य अतो विभाषा रुढागमो भवति। संविदते, संविद्रते। संविदताम्, संविद्रताम्। समविदत, समविद्रत। वेत्तेः इति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत्, विन्ते, विन्दाते, विन्दते इति।
न्यासः
वेत्तेर्विभाषा। , ७।१।७

"संविद्रते, संविदते" इति। "विद ज्ञाने" (धा।पा।१०६४)। "समोभ्यृच्छि" १।३।२९ इत्यादिनाऽत्मनेपदम्(), अदादित्वाच्छपो लुक्()। "संविद्रताम्(), संविदताम्()" इति। लोट्()। देरेत्त्वे कृते "आमेतः" ३।४।९० इत्याम्()। "वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्()" इति। एवं मन्यते--विधेरिति सामान्यनिर्देशेन सर्वविदीनां ग्रहणमस्तु, लघु ह्रेवं सूत्रं भवति, सत्यपि सर्वविधीनां ग्रहणे लुग्विकरणादेव भविष्यति, नान्यतः, विकरणेन व्यवधानात्()। यद्यविशेषेण विदीनां ग्रहण स्यात्? "विद विचारणे" (धा।पा।१४५०) इत्यस्मादपि रौधादिकात्? स्यात्(), न ह्रत्र विकरणो व्यवधायकः; धात्वन्तःपातित्वात्()? इत्यत आह--"इह" इत्यादि। "विन्ते, विन्दाते, विन्दते" इति। अनुदात्तेत्त्वादात्मनेपदम्(), "श्नसोरल्लोपः" ६।४।१११। अत्र तु "विन्दते" इति बहुवचनान्तं प्रत्युदाहरणम्()। एकवचनद्विवचनयोरुपन्यासो विदेर्विचारणार्थस्य रूपमिति प्रदर्शनार्थः; अन्यथा "विन्दते" इत्येताचत्युच्यमाने लाभार्वस्य विदेरेकवचनान्तमिदं रूपमिति कस्यचिद्भ्रान्तिः स्यात्()। श्तिपा निर्देशाद्यङ्लुकि न भवति--संवेविदते, व्यतिवेविदते॥ "अदुह्य" इति। स्वरिरेत्त्वादात्मनेपदम्()। ननु च विभाषाग्रहणानुवृत्तेरेवादुह्यतेत्यादि सिद्धम्(), किं बहुलवचनेनेति यश्चोदयेत्? तं प्रत्याह--"बहुलवचनात्()" इत्यादि। विभाषानुवृत्त्या हि विकल्पमात्रं लभ्यते, न त्वन्यत्रापि भवति। बहुलवचनादन्यत्रापि भवति। तेन विभाषायां प्रकृतायां बहुलवचनमिति भावः। "अदृश्रन्()" इति। दृशेर्लुङ्(), झेरन्तादेशः, "इरितो वाट ३।१।५७ इति च्लेरङ्, तस्य रुट्? "इतश्च" ३।४।१०० इतीकारलोपः, "संयोगन्तस्य" ८।२।२३ इति तकारस्य च, "अतो गुणे" ६।१।९४ पररूपत्वम्()। अथात्र "ऋवृशोरङि" (७।४।१६) इति गुण कस्मान्न भवति? "क्ङिति च" (१।१।५) इति प्रतिषेधादिति चेत्()? न; तसय ङित्येव विधानात्()। सार्वधतुकस्य ङितमाश्रित्य प्रतिषेधः प्राप्नोतीति चेत्()? न; एकादेशः पूर्वविधौ स्थानिवद्भवतीति यश्चोदयेत्(), तं प्रत्याह--"ऋदृशोऽङि गुणः" इति॥
बाल-मनोरमा
वेत्तेर्विभाषा ५२५, ७।१।७

वेत्तेर्विभाषा। "झोऽन्तः" इत्यतो झ इत्यनुवर्तते। "अदभ्यस्ता"दित्यत आदित्यनुवृत्तं षष्ठ()आ विपरिणम्यते। "शीङो रु"डित्यतो रुडिति च। तदाह-- वेत्तेः परस्येत्यादिना। अर्तिश्रुदृशिभ्य इति। "संपूर्वेभ्यस्त"ङिति शेषः। द्वयोरिति। भौवादिकस्य, इयर्तेश्चेत्यर्थः। अङ्विधौ त्विति। "सर्तिशास्त्यर्तिभ्यश्च" इत्यत्रेत्यर्थः। मा समृतेति। "उश्चे"ति सिचः कित्त्वान्न गुणः। "ह्यस्वादङ्गा"दिति सिचो लोपः। माङ्योगे मा समृतेत्यादि। माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः। माङ्योगादाडभावः। अथ माङ्योगाऽभावे आडागमे उदाहरति-- समार्तेति। सम् आ ऋ स् त इति स्थिते "उश्चे"ति कित्त्वाद्गुणनिषेधे "आटश्च" इति वृदिं()ध बाधित्वा परत्वात् "ह्यस्वादङ्गा"दिति सिचो लोपे "आटश्चे"ति ऋकारस्य वृद्धौ रपरत्वे रूपम्। न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्यस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्, "सिज्लोप एकादेशे सिद्धो वाच्यः" इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम्। इयर्तेस्त्विति। श्लुविकरणऋधातोरित्यर्थः। मा समरतेति। सर्तिश#आस्त्यर्ति" इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः। "ऋदृशोऽङि" इति गुणः। समारतेति। "आटश्च" इति वृद्धिः। इति चेति। इयर्ते रूपमत्यन्वयः। तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति -- संशृणुते इति। दृशेरुदाहरति--- संपश्यते इति। अकर्मकादित्येवेति। "समो गम्यृच्छिभ्या"मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः। अत एवेति। "प्रमादिक इत्याहु"रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः। अध्याहारो वेति। "इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः। तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः। धातोरिति। धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि। अकर्मिका क्रियेति सर्वत्रान्वेति। "कर्मण" इति तु द्वितीयादिषु वाक्येष्वन्वेति। वहति भारमिति। प्रापयतीत्यर्थः। अत्र सकर्मकत्वमिति भावः। अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति-- नदी वहतीति। स्यन्दते इति। प्ररुआवतीत्यर्थः। धात्वर्थोपसङ्ग्रहे उदाहरति-- जीवतीति। नृत्यतीति। जीवेः प्राणधारणमर्थः। नृतेस्त्वङ्गविक्षेपः। उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति "सुप आत्मनः" इति सूत्रे भाष्ये स्पष्टम्। मेघो वर्षतीति। वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम्। हितान्न य इति। हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः। अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः। एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम्। अकर्मकत्वनिर्णयोऽयं "लः कर्मणि" इत्यादौ उपयुज्यते। उपसर्गादस्यत्यूह्रोर्वेति। "आत्()मनेपद"मिति शेषः। निवृत्तमिति। सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः।

तत्त्व-बोधिनी
वेत्तेर्विभाषा ४४८, ७।१।७

वेत्तेर्विभाषा। "शीङो रु"डित्यतो रुडनुवर्तते, "अदभ्यस्ता" दित्यतोऽदित्यनुवर्त्त्य षष्ठ()न्तत्वेन विपरिणम्यत इत्याह-- अतो रुडागम इति।

* अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्। अङ्विधौ त्विति। "सर्तिशास्त्यर्ती"ति लुप्तविकरणेन शासिना साहचर्यादिति भावः। मा समृतेति। "उश्चे" ति कित्त्वम्। माङ्()योगादडभावपः। समार्तेति। ननु सिज्लोपस्याऽसिद्धत्वात् "आटश्चे"ति वृद्धौ कृतायां "ह्यस्वादङ्गा"दिति सिज्लोपाऽप्रवृत्त्या समार्ष्टेति रूपं स्यात्। न च ह्यस्वाद्विहितस्येति व्याख्यानदिष्टसिद्धिरिति वाच्यं, विहितविशेषणे मानाऽभावात्। उदायत आहतेत्याद्यसिद्ध्यापत्तेश्च। अत्र केचित्-- "सिज्लोप एकादेशे सिद्धो वाच्यः" इत्यनेन पूर्वं सिज्लोपे पश्चाद्वृद्धिर्भवति, "एकादेशे" इति विषयसप्तम्याश्रयणात्। न चैवमध्यैष्टेति न सिध्येत्, तत्राप्युक्तरीत्या पूर्वं सिज्लोपे वृद्धौ सत्यामध्यैतेति रूपप्रसङ्गादिति वाच्यम्, "वार्णादाङ्गं बलीयः" इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इति "आटश्चे"ति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्बाधत्वात्। समार्तेत्यत्र तु "उश्चे" ति कित्त्वेन गुणाऽप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चात् "आटश्चे"ति वृद्धिरिति वैषम्यमित्याहुः। अन्ये तु-- सिज्लोपानन्तरं यत्रैकदेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो, यथा अग्रहीदिति। न चात्र तादृशो विषयोऽस्ति। किं च "वार्णादाङ्गं बलीयः" इति पूर्वमेव गुणे कृते इत्यादि यदुक्तं, तदसत्। समानाश्रये हि वार्णादाङ्गं बलीयः। अन्यथा द्यौरिवाचरति द्यवतीत्यत्र यण्न स्यात्। किं तु "पुगन्ते"ति गुण एव स्यात्। तथा च समार्ष्टेत्येव वक्तव्ये समार्तेति लेखकप्रमाद इत्याहुः