पूर्वम्: ६।४।४३
अनन्तरम्: ६।४।४५
 
सूत्रम्
तनोतेर्यकि॥ ६।४।४४
काशिका-वृत्तिः
तनोतेर्यकि ६।४।४४

तनोतेः यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकि इति किम्? तन्तन्यते।
लघु-सिद्धान्त-कौमुदी
तनोतेर्यकि ७५८, ६।४।४४

आकारोऽन्तादेशो वा स्यात्। तायते, तन्यते॥
न्यासः
तनोतेर्यकि। , ६।४।४४

बाल-मनोरमा
तनोतेर्यकि ५८५, ६।४।४४

तनोतेर्यकि। "विड्वनोरित्यत आदिति, "ये विभाषे"त्यतो विभाषेति चानुवर्तते। तदाह-- आकारोऽन्तादेशो वा स्यादिति। शेषपूरणमिदम्। तायते तन्यते इति। कर्मणि लकारः।

तत्त्व-बोधिनी
तनोतेर्यकि ४८०, ६।४।४४

तनोतेर्यकि। "विड्वनो"रिति सुत्रादादिति, "ये विभाषे"त्यतो विभाषेति चानुर्तते। यकि किम्?। तंतन्यते।