पूर्वम्: ६।४।१५८
अनन्तरम्: ६।४।१६०
 
सूत्रम्
इष्ठस्य यिट् च॥ ६।४।१५९
काशिका-वृत्तिः
इष्ठस्य यिट् च ६।४।१५९

बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः।
लघु-सिद्धान्त-कौमुदी
इष्ठस्य यिट् च १२३१, ६।४।१५९

बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥
न्यासः
इष्ठस्य यिट् च। , ६।४।१५९

"लोपापवादो यिङागमः" इति। नाप्राप्ते तस्मिन्नस्यारम्भात्()। "तस्मिन्निकार उच्चारणार्थः" इति। प्रयोजनान्तराभावात्()। चकारः "बहोश्च भूः" इत्यनुकर्षणार्थः॥
बाल-मनोरमा
इष्ठस्य यिट् च , ६।४।१५९

इष्ठस्य यिट् च। लोपः स्यादिति। "आदेः परस्ये"ति बोध्यम्। यिटि टकार इत्। इष्ठस्यादिलोपे कृते यिडागमः। ट इत्। टित्त्वात्प्रत्ययस्याद्यवयवः। बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव। यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम्।

तत्त्व-बोधिनी
इष्ठस्य यिट् च १५०९, ६।४।१५९

इष्ठस्य यिट् च। पूर्वसूत्रं संपूर्णमनुवर्तते। तदाह---बहोरित्यादि। "भूरादेशश्चे"त्यपि ज्ञातव्यम्। भूयिष्ठ इति। अत्र इष्ठस्याऽ‌ऽजिलोपे कृते यिशब्द आगमः। यद्वा लोपापवादो यकार आगमः। इकारस्तूच्चारणार्थः। पक्षद्वयमपीदं भाष्यारूढम्।