पूर्वम्: ६।४।११५
अनन्तरम्: ६।४।११७
 
सूत्रम्
जहातेश्च॥ ६।४।११६
काशिका-वृत्तिः
जहातेश् च ६।४।११६

जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादौ इत्येव, जहति। क्ङिति इत्येव, जहाति। सार्वधातुके इत्येव, हीयते। जेहीयते। पृथ्ग्योगकरणम् उत्तरर्थम्।
लघु-सिद्धान्त-कौमुदी
जहातेश्च ६२०, ६।४।११६

इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥
न्यासः
जहातेश्च। , ६।४।११६

ईत्त्वापवाद इत्त्वमारभ्यते; अन्यतरस्यांग्रहणानुवृत्तेः। पक्षे तदपि भवत्येव। सार्वधातुक इत्येव--हीनः, हीनवान्()। इह केचित्? "सार्वधातुके" ६।४।११० इत्यस्यानुवृतिं()त प्रत्याचक्षते। कथम्()? "हलि परत ईत्त्वेत्त्वे प्राप्नुतः, द्विर्वचनं च; तत्र यदि परत्वादीत्त्वेत्त्वे स्यातां ततश्चेवर्णन्तताभ्यासस्य स्यात्(); तस्मादभ्यस्त ग्रहणमनुवत्र्तनीयम्(), त()स्मश्चानुवत्र्तमाने सार्वधातुकानुवृत्तिरपार्थिका" इति। एतच्चायुक्तम्(); अन्तरङ्गत्वात्()। "द्विर्वचनेनैव प्रागीत्त्वेत्त्वाभ्यां भवितव्यम्(), तत्? कुतोऽभ्यासस्येवर्णान्तताप्रसङ्गः! अन्तरङ्गत्वन्तु द्विर्वचनस्याल्पापेक्षत्वात्()। तद्धि श्लुमात्रमपेक्षते। इत्त्वेत्त्वयोश्च बह्वपेक्षत्वाद्बहिरङ्गता, बहवपेक्षा च; तयोः पुनरङ्गस्य हलादौ क्ङिति सार्वधातुके विधानात्()। जहातेरिति निर्देशात्? जिहीत इत्यतद्र जिहातेर्न भवति। "पृथग्योगकरणमुत्तरार्थम्()" इति। "आच हौ" ६।४।११७ इत्येष विधिर्जहातेरेव यता स्यात्(), बिभेतेर्मा भूदिति॥
बाल-मनोरमा
जहातेश्च ३२८, ६।४।११६

जहातेश्च। "इद्दरिद्रस्ये"त्यत इदिति, "भियोऽन्यतरस्या"मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति--इत्स्याद्वेति। जहतीति। अब्यस्तत्वाददादेशे "श्नाब्यस्तयो"रित्याल्लोपः। जहाविति। जहतुः जहुः। जहिथ--जहाथ जहथुः दजह। जहौ जहिव जहिम। हाता। हास्यति। जहितादिति। जहिताम्--जहीताम् जहतु।

तत्त्व-बोधिनी
जहातेश्च २८४, ६।४।११६

जहातेश्च। क्ङितीति किम्?। जहाति। सार्वधातुके किम्?। हीयते।