पूर्वम्: ६।३।३
अनन्तरम्: ६।३।५
 
सूत्रम्
मनसः संज्ञायाम्॥ ६।३।४
काशिका-वृत्तिः
मनसः संज्ञायाम् ६।३।४

मनसः उत्तरस्याः तृतीयायाः संज्ञायाम् अलुग् भवति। मनसादत्ता। मनसगुप्ता। मनसासङ्गता। संज्ञायाम् इति किम्? मनोदत्ता। मनोगुप्ता।
न्यासः
मनसः संज्ञायाम्?। , ६।३।४

बाल-मनोरमा
मनसः संज्ञायाम् ९४६, ६।३।४

मनसः संज्ञायां। मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः। मनसागुप्तेति। कस्याश्चित्संज्ञेयम्। असंज्ञायां तु-मनोगुप्ता।