पूर्वम्: ६।२।५८
अनन्तरम्: ६।२।६०
 
सूत्रम्
राजा च॥ ६।२।५९
काशिका-वृत्तिः
राजा च ६।२।५९

राजा च पूर्वपदं ब्राह्मणकुमारयोः उत्तरपदयोः कर्मधारये समासे अन्यतरस्यां प्रक्र्तिस्वरं भवति। राजब्राह्मणः, राजब्राह्मणः। राजकुमारः, राजकुमारः। कर्मधारये इत्येव, राज्ञो ब्राह्मणः राजब्रहमणः। राजकुमारः। पृथग्योगकरणम् उत्तरार्थम्।
न्यासः
राजा च। , ६।२।५९

राजब्राआहृणम्()" ["राजब्राआहृणः"--काशिका] इति। पूर्ववत्? समासः। प्रत्युदाहरणेऽपि पूर्ववत्()। राजशब्दः क्वनिन्प्रतययान्तत्वादाद्युदात्तः। "पृथग्योगकरणमुत्तरार्थम्()" इति। उत्तरो विधी राजशब्दस्यैव यथा स्यात्()। आर्यशब्दस्य मा भूदिति॥