पूर्वम्: ६।२।५०
अनन्तरम्: ६।२।५२
 
सूत्रम्
तवै चान्तश्च युगपत्॥ ६।२।५१
काशिका-वृत्तिः
तवै च अन्तश् च युगपत् ६।२।५१

तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्च अनन्तरः प्रकृतिस्वरः इति एतदुभयं युगपद् भवति। अन्वेतवै। परिस्तरितवै। परिपातवै। तस्मादग्निचिन् न अभिचरितवै। उपसर्गा आद्युदात्ता अभिवर्जम् इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः।
न्यासः
तवै चान्तश्च युगपत्?। , ६।२।५१

"अन्त उदात्तो भवति" इति। कथं पुनरुदात्तो भवतीत्येषो लभ्यते, नेहोदात्तग्रहणमस्ति? न ह्रत्रापूर्व एव स्वरो विधीयते, किं तर्हि? "तिकारकोपपदत्? कृत्()" ६।२।१३८ इति प्रकृतिभावेनादेर्यः स्वरः प्राप्नोति न एव, तत्? कथं प्रकृत्येति वर्तते? तत्रैवमभिसम्बन्धः क्रियते--तवापरत्ययान्तस्य यः प्राप्नोति सोऽन्त्यस्य भवतीति। स चोदात्त एवेति समाथ्र्यादुदात्तो लभ्यते। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्()। "अन्वेतवा" [आम्वेतवै--काशिका] इति। अनुपूर्वादेतेः "कृत्यार्थे "तवैकेन्केन्यत्वनः" ३।४।१४ इति तवैप्रत्ययः, गुणः। "परिपातवा" [परिपातवै--काशिका] इति। परिपूर्वात्? विबातेः। "अभिचरितवा" [अभिचरितवै--काशिका] इति। अभिपूर्वाच्चरतेः। "अभिरन्तोदात्तः" इति। प्रातिपदकस्वरेण।