पूर्वम्: ६।२।३३
अनन्तरम्: ६।२।३५
 
सूत्रम्
राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु॥ ६।२।३४
काशिका-वृत्तिः
राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु ६।२।३४

राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वो ऽन्धकवृष्णिषु वर्तते तत्र पूर्वपदं प्रकृतिस्वरम् भवति। श्वाफल्कचैत्रकाः। चैत्रकरोधकाः। शिनिवासुदेवाः। श्वाफल्कशब्दः चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च ४।१।११४ इति अणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम्? द्वैप्यहैमायनाः। द्वीपे भवाः इति द्वीपादनुसमुद्रं यञ् ४।३।१०। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणम् इह अभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च न अभिषिक्तवंश्याः। बहुवचनग्रहणं किम्? सङ्कर्षणवासुदेवौ। द्वन्द्वे इति किम्? वृष्णीनां कुमाराः वृष्णिकुमाराः। अन्धकवृष्णिषु इति किम्? कुरुपञ्चालाः।
न्यासः
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु। , ६।२।३४

राजन्यवाचीनि यान्यसमस्तानि बहुवचनान्तानि तदवयवको यो द्वन्द्वः स राजन्यबहुवचनद्वन्दव इत्युक्तः। "()आआफल्कचैत्रकरोधकाः" इति। ()आआफल्काश्च चैत्रकाश्च रोधकाश्चेति द्वन्द्वः। तत्र रोधकशब्दमपेक्ष्य चैत्रकशब्दस्य पूर्वपदत्वम्(), चैत्रकशब्दमपेक्ष्य ()आआफल्कशब्दस्य, तयोरपि प्रकृतिभावः। अत एव तयोद्र्वयोरपि स्वरं दर्शयितुमाह--"()आआफल्कशपब्दश्चैत्रकशब्दश्च" इत्यादि। "शिनिशब्द आद्युदात्तः" इति। स हि--"वीज्याज्वरिभ्योनिः" (द।उ।१।१८) इति निप्रत्ययेऽनुवर्तमाने "वहिश्रिश्रुद्रुग्लाहात्वरिभ्यो नित्()" (द।उ।१।२१) [वहिश्रियुश्रुग्लाहात्वरिभ्यो--द।उ।] इति विधीयमाने शीङोऽपि भवति। बहुलवचनाद्? ह्यस्वत्वं च तत एव। तेनाद्युदात्तो भविता नित्स्वरेण। "तदपत्येषु" इति। तस्य शिनेः श्रत्त्रियस्य यान्यपत्यानि तेष्वित्यर्थः। "अभेदेन" इति। उपचरेणेत्यर्थः। "हैमायनाः" इति। "यञिञोश्च" ४।१।१०१ इति फक्()। ननु च राजन्यशब्दोऽयं क्षत्रियजातिवचनः, तथा चोक्तम्()--"राज्ञोऽपत्ये जातिग्रहणम्()" (वा।३९२) इति; राजन्यो भवति क्षत्रियश्चेत्()" इति। यश्चान्धकवृष्णिषु वर्तते द्वन्द्वः स तु क्षत्रियवाचिनामेव भवति; अन्धकवृष्णीनां क्षत्रियत्वात्()। ततश्च द्वैप्यहैमायना इत्युक्तं प्रत्युदाहरणम्()। अयमपि हि राजन्यवाचिनामेव द्वन्द्वः; अन्धकवृष्णिषु वर्तमानत्वदित्यत आह--"अन्धकवृष्णयः" इत्यादि। "अन्धकवृष्णिषु" इत्येतावतैव क्षत्रियग्रहणे सिद्धे यद्राजन्यग्रहणं क्रियते, तस्यैतत्? प्रयोजनम्()--विशिष्टा येऽभिषिक्तवंश्यास्तेषां ग्रहणं यथा स्यादित्येवमर्थम्()। विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानः=वंशः, इह तु जन्मना य एकलक्षणः सोऽभिप्रेतः, तत्र भवो वंश्यः, दिगादित्वात्? ४।३।५४। यत्()। तत्रैतत्? स्यात्()। द्वैप्यहैमायना अप्यभिषिक्तवंश्य एव क्षत्त्त्रियाः? इत्यत आह--"एते च" इत्यादि। "सङ्कर्षणवासुदेवौ" इति। सङ्कर्षणश्च वासुदेवश्चेत्येकवचनान्तयोरयं द्वन्द्वः। "वृष्णिकुमाराः" इति। तत्पुरुषोऽयम्()। "कुरुपाञ्चालाः" इति। अत्र सर्वमस्ति, तथाप्यन्धकवृष्णिग्रहणान्न भवति; तत्रावृत्तेः॥