पूर्वम्: ६।२।२६
अनन्तरम्: ६।२।२८
 
सूत्रम्
आदिः प्रत्येनसि॥ ६।२।२७
काशिका-वृत्तिः
आदिः प्रत्येनसि ६।२।२७

कर्मधारये इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्य आदिरुदात्तो भवति। कुमारप्रत्येनाः। उअदात्तः इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययम् आदेरुपदिश्यते।
न्यासः
आदिः प्रत्येनसि। , ६।२।२७

"प्रतिगत एनसा" इति। अनेन "अवादयः क्रुष्टाद्यर्थे तृतीयया" (वा।९२) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। "प्रतिगतमेनो वा यस्य" इति। अनेन बहुव्रीहित्वम्()। "कुमारप्रत्येनाः" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। ननु च नेह सूत्र उदात्तग्रहणमस्ति, तत्? कथमुदात्तस्वरो लभ्यते? इत्याह--"उदात्त इत्येतदिह" इत्यादि। किं पुनस्तत्सामथ्र्यम्()? इत्याह--"पूर्वपद" इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते। किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते--प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामथ्र्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः॥