पूर्वम्: ६।२।१९७
अनन्तरम्: ६।३।१
 
सूत्रम्
परादिश्छन्दसि बहुलम्॥ ६।२।१९८
काशिका-वृत्तिः
परादिश् छन्दसि बहुलम् ६।२।१९९

छन्दसि विसये परादिः उदात्तो भवति बहुलम्। परशब्देन अत्र सक्थशब्द एव गृह्यते। अञ्जिसक्थम् आलभेत। त्वाष्ट्रौ लोमशसक्थौ। ऋजुबाहुः। वाक्पतिः। चित्पतिः। परादिश्च प्रान्तश्च पूर्वान्तश्च अपि दृश्यते। पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः। परादिरुदाहृतः। परान्तश्च अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसङ्ख्यानम्। त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण। पूर्वान्तः पूर्वपदान्तोदात्तप्रकरणे मरुद्वृद्धादीनां छन्दस्युपसङ्ख्यानम्। मरुद्वृद्धः। पूर्वादिः पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्। दिवोदासाय समगाय ते इत्येवम् आदि सर्वं सङ्गृहीतं भवति। इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः। षष्ठाध्यायस्य तृतीयः पादः।
न्यासः
परादिश्छन्दसि बहुलम्?। , ६।२।१९८

"परशब्देनात्र सक्थशब्द एव गह्रते" इति। प्रत्यसत्तेः, स हि पूर्वसूत्रे सन्निहितत्वात्? प्रत्यासन्नः। यद्येवुम्(), परशब्दग्रहणमनर्थकम्(), सक्थशब्द एव ह्रत्रानुवर्त्तिष्यते? नैतदस्ति; बहुव्रीहिग्रहणप्यत्रानुवर्तत इति तस्याप्याद्युदात्तत्वमाशङ्क्येत। "अञ्जिसक्थम्()" इति। अञ्जिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। अथाप्यञ्जशब्दाग्मत्वर्थ इनिः क्रियते, एवमप्यन्तोदात्त एव। "लोमशसक्थम्()" इति। "लोमादिपामादिपिच्छादिभ्यः शनेलचः" ५।२।९९ इति शप्रत्ययान्तत्त्वाल्लोमशशब्दोऽन्तोदात्तः। "ऋजुबाहुः" इति। "कुभ्र्रश्च" (द।उ।१।१०७) इत्यधिकृत्य "अर्जिदशिकम्यमिपशिबाधामृजिपसितुग्धुग्दींर्घहकाराश्च" (द।उ।१।११२) इति कुप्रत्ययान्तौ ऋजुबाहुशब्दौ। तेनान्तोदात्तौ। "वाक्पतिश्चित्पत्तिः" इति। षष्ठीसमासावेतौ। अत्रोत्तरपदमाद्युदात्तं भवति; बहुलग्रहणात्()। विभाषाग्रहणे हि प्रकृते बहुलग्रहणेन यत्? सिध्यति तद्दर्शनार्थमुपन्यस्तः। "व्यत्ययो बहुलं ततः" इति। यत एवं बहुलग्रहणेनानेन कार्य सिध्यति, तेन व्यत्ययो बहुलं भवति। ननु च पूर्वमेव स्वराणां व्यत्ययो विहितः? सत्यमेतत्(); तस्यैव तु प्रपञ्चोऽयम्()। "परादिरुदाह्मतः" इति। वाक्पतिश्चित्पत्तिरिति। अत्र च परग्रहणेनोत्तरपदमुक्तम्()। "अन्तोदात्तप्रकरणे" इति। "अन्तः" "थाथघञ्क्ताजबित्रकाणाम्()" ६।२।४४ इत्यादौ। "पूर्वपदान्तोदात्तप्रकरणे" इति। "अन्तः" ६।२।९२, "सर्वं गुणकात्र्सन्ये ६।२।९३ इत्यादौ। "पूर्वपदाद्युदात्तप्रकरणे" इति। आदिरुदात्तः--"सप्तमीहारिणौ धम्यऽहरणे" ६।२।६५ इत्यादौ। "एवमादि सर्व संगृहीतं भवति" इति। बहुलग्रहणेन। यतस्तेन विभाषाग्रहणे प्रकृते बहुलग्रहणं कृतमित्यभिप्रायः। त्रिचक्रादीनां पूर्वमेव पूर्वोत्तरपदस्वर उक्त इति पुनरिह नोच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां षष्ठाध्यायस्य द्वितीयः पादः॥ - - - अथ षष्ठोऽध्यायः तृतीयः पादः