पूर्वम्: ६।२।१०३
अनन्तरम्: ६।२।१०५
 
सूत्रम्
आचार्योपसर्जनश्चान्तेवासिनि॥ ६।२।१०४
काशिका-वृत्तिः
आचार्यौपसर्जनश् च अन्तेवासिनि ६।२।१०४

आचार्योपसर्जनान्तेवासिवाचिनि उत्तरपदे दिक्शब्दा अन्तोदात्ताः भवन्ति। पुर्वपाणिनीयाः। अपरपाणिनीयाः। पूर्वकाशकृत्स्नाः। अपरकाशकृत्स्नाः। आचार्योपसर्जनः इति किम्? पूर्वशिष्याः। अन्तेवासिनि इति किम्? पूर्वपाणिनीयं शास्त्रम्।
न्यासः
आचार्योपसरजनश्चान्तेवासिनि। , ६।२।१०४

"आचार्योपसर्जनश्च" इति। सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्(), एतच्चान्तेवासिविशेषणम्()। "आचार्योपसर्जनान्तेवाचिन्युत्तरपदे" इति। आचार्य उपसर्जनम्()प्रधानं यस्य अन्तेवासिनः स तथोक्तः। आचार्योपसर्जनश्चान्तेवासी चाचार्योपसर्जनान्तेवासी, तं वक्तुं शीलं यसयोत्तरपदस्य तदाचार्योपसर्जनान्तेवासिवाचि। "पूर्वपाणिनीयाः" इति। "पूर्वापर" २।१।५७ इत्यादिना समासः पाणिनेराचार्यस्यान्तेवासिनः पाणिनीयाः, अत्रान्तेवासिनः प्राधान्येनोच्यन्ते प्रत्ययान्तेन; आचार्यस्तु तद्विशेषणत्वादुपसर्जनभावेनेत्याचर्योपसर्जनान्तेवासिवाच्युत्तरपदं भवति। "पूर्वकाशकृत्स्नाः" इति। काशकृत्स्नस्येमे काशकृत्स्नाः, औत्सर्गिकोऽण्()। "पूर्वपाणिनीयं शास्त्रम्()" इति। पाणिना प्रोक्तं पाणिनीयम्(), अत्राचार्योपसर्जनशास्त्रवाच्युत्तरपदम्(), न त्वाचार्योपसर्जनान्तेवासिवाचि॥