पूर्वम्: ६।१।३१
अनन्तरम्: ६।१।३३
 
सूत्रम्
ह्वः सम्प्रसारणमभ्यस्तस्य च॥ ६।१।३२
काशिका-वृत्तिः
ह्वः संप्रसारणम् ६।१।३२

णौ च संश्चङोः ६।१।३१ इति वर्तते। सन्परे चङ्परे च नौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिष्तः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युक् ७।३।३७ इति प्रागेव युक् न भवति। सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणम् इत्युक्तं विभाषा इत्यस्य निवृत्त्यर्थम्। ह्वः सम्प्रसारणम् अभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरनम् अनभ्यस्तनिमित्तप्रत्ययव्यवधाने सम्प्रसारणाभावज्ञापनार्थम्। ह्वयकम् इच्छति ह्वायकीयते। ह्वायकीयतेः सन् जिह्वायकीयिषति।
काशिका-वृत्तिः
अभ्यस्तस्य च ६।१।३३

ह्वः इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम्। अभ्यस्तस्य यो ह्वयतिः। कश्च अभ्यस्तस्य ह्वयतिः? कारणम्। तेन अभ्यस्तकारणस्य ह्वयतिः प्रागेव द्विर्वचनात् सम्प्रसारणं भवति। जुहाव। जुहूयते। जुहूषति।
न्यासः
ह्वः सम्प्रसारणम्?। , ६।१।३२

"जुहावयिषति" इति। अत्रापि पूर्ववद्बलीयस्त्वाद्बृद्ध्यादेः प्राक्? सम्प्रसारणं भवति, अभ्यासस्य "कुहोश्चुः" ७।४।६२ इति चुत्वम्()--हकारस्य झकारः। तस्य "अभ्यासे चर्च" ८।४।५३ इति जश्त्वम्()--जकारः। अथात्र कस्मात्? "साच्छाशाह्वा" (७।३।३७) इत्यादिना प्रागेव सम्प्रसारणाद्युगागमो न भवति? इत्याह--"सम्प्रसारणस्य" इत्यादि। ननु च सम्प्रसारणग्रहणमनुवत्र्तत एव, तत्? किमर्थ पुनः सम्प्रसारणमित्युच्यते? इत्याह--"सम्प्रसारणमिति" इत्यादि। पूर्वकं हि सम्प्रसारणग्रहणं विभाषेत्यनेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तस्माद्विभाषेत्यस्य निवृत्तये पुनः सम्प्रसारणमित्युक्तम्()। अथ कस्माद्योगविभागः क्रियते, यावता "ह्वः सम्प्रसारणमभ्यस्तस्य च" इत्येकयागेऽपि जुहावयिषतीत्यादि सिद्ध्यत्येव, अत्रापि ह्वयतरभ्यस्तस्य कारणत्वेन सम्बन्धी भव्त्येव, तथा च"एकाचो द्वे प्रथमस्य" (६।१।१) इति स एव द्विरुच्यमानोभ्यसतस्य कारणं भवत्येव? इत्याह--"ह्वः सम्प्रसारणम्()" इत्यादि। एकयोगेनैव सिद्धे पृथग्योगकरणेनायमर्थो न ज्ञाप्येत, तदा स्यादेवात्र सम्प्रसारणम्()। भवति ह्रत्रापि ह्वपतिरभ्यस्तस्य निमित्त्म्()। ह्वायकशब्दाण्ण्वुलन्तात्? क्यच्(), "क्यति च" ७।४।३३ इतीत्त्वम्(), क्यजन्तात्? सन्(), इट्(), "अतो लोपः ६।४।४८ द्विर्वचनम्()॥
न्यासः
अभ्यस्तस्य च। , ६।१।३२

चकारः "ह्वः" इत्यनुकर्षणार्थः, अत एवाह--"ह्व इत्यनुवत्र्तते" इति। यदि "ह्वः" इत्येतन्नानुवत्र्तते ततोऽभ्यस्तमात्रस्य स्यात्()। तत्र "ह्वः" इत्यनुवत्र्तमानस्याभ्यस्तस्येत्यनेन यदि समानाधिकरण्यं स्यात्(), तदा द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात्()। एवञ्च "न सम्प्रसारणे सम्प्रसारणम्? ६।१।३६ इत्यभ्यासस्य सम्प्रसारणं न स्यात्()। यद्यपि परेण हरूपेण व्यवधानम्(), तथापि समानाङ्गग्रहणात्? तस्य व्यवधानेऽपि प्राप्नोत्येवात्र प्रतिषेधः, यथा यूनेत्यत्र--इतीमं पक्षे सामानाधिकरण्ये दोषं पश्यन्नाह--"तदभ्यस्तस्येत्यनेन व्यधिकरणम्()" इति। भिन्नाभिधेयमित्यर्थः। "अब्यस्तस्य यो ह्वयतिः" इत्यादिना सम्बन्धलक्षणां षष्ठीं ख्यापयंस्तदेव वैयधिकरण्यं दर्शयति। तेन किं सिद्धं भवति? इत्याह--"तेन" इत्यादि। "जुहाव" इति। सम्प्रसारणे वृद्ध्यावादेशयोः स्थानिवद्भावेन हु इत्यस्य द्विर्वचनम्()॥
बाल-मनोरमा
ह्वः संप्रसारणम् ४१४, ६।१।३२

ह्वः संप्रसारणम्। ह्वेञः कृतात्त्वस्य "ह्व" इति षष्ठी। "णौ च संश्चङो"रित्यनुवृत्तिमभिप्रेत्य आह-- सन्पर इत्यादि। अजूहवदिति। ह्वा इ अ त् इति स्थिते "संप्रसारणं तदाश्रयं च कार्यं बलव"दिति वचनात्कृते संप्रसारणे पूर्वरूपे च "हु" इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे सन्वत्त्वदीर्घाविति भावः। अत्र कृते संप्रसारणे पूर्वरूपे च ह्वारूपाऽभावान्न युक्। पाधातोर्णौ युगागमे पायि इत्यस्माल्लुङि चङि द्वित्वादौ अपीपय् अ त् इति स्थिते -

बाल-मनोरमा
अभ्यस्तस्य च २४८, ६।१।३२

अभ्यस्त स्य च। "ह्वः संप्रसारण"मित्यनुवर्तते। "ह्व" इति कृतात्त्वस्य "हवे" इत्यस्य षष्ठ()न्तम्। तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्य "न संप्रसारणे संप्रसारण"मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति। ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सति "विप्रतिषेधे यद्बाधितं तद्बाधित"मिति न्यायाद्द्वित्वं न स्यादित्यत आह--ततो द्वित्वमिति। संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः। तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे "हु" इत्यस्य द्वित्वे "कुहोश्चु"रिति चुत्वे तस्य जश्त्वे "अचो ञ्णिती"ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह--जुहावेति। जुहुवतुरिति। अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात् "अभ्यस्तस्य चे"त्यनेन संप्रसारणे "वार्णादाङ्गं बलीयः" इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः। यद्यपि किति "वचिस्वपी"ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम्। एवं जुहुवुः। भारद्वाजनियमात्थलि वेट्। तदाह--जुहोथ जुहविथेति। जुहुवथुः जुहुव। जुहाव जुहव जुहुविव जुहुविम। क्रादिनियमादिट्। जुहुवे जुहुवाते जुहुविरे। जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे। जुहुवे जुहुविवहे जुहुविमहे। ह्वातेति। तासि आत्त्वम्। ह्वास्यति ह्वास्यते। ह्वयतु ह्वयताम्। अह्वयत् अह्वयत। ह्वयेत् ह्वयेत। हूयादिति। आशीर्लिङि आत्त्वे यासुटि कित्त्वात् "वचिस्वपी"ति संप्रसारणे पूर्वरूपे "अकृत्सार्वधातुकयो"रिति दीर्घ इति भावः। ह्वासीष्टेति। आशीर्लिङि सीयुटि रूपम्। लुङि विशेषमाह--

तत्त्व-बोधिनी
ह्वः संप्रसारणम् ३६२, ६।१।३२

ह्वः संप्र। "णौ च संश्चङो"रिति वर्तते। तदाह--सन्पर इत्यादि। अजूहवत्।अजुहाविति। "काण्यादीनां वे"ति ह्यस्वविकल्पः।

तत्त्व-बोधिनी
अभ्यस्तस्य च २१९, ६।१।३२

अभ्यस्तस्य चेति। पूर्वयोगस्तु "णौ च संश्चङो"र्विषये प्रवर्तते। जुहावयिषति। अजूहवत्। अभ्यस्तीभविष्यतो ह्वेञ इति। अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः। अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात्। तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात्। अत एव णिचो द्वित्वनिमित्तत्वं नेति "ह्वः संप्रसारण"मिति योगविभागः क्रियते। एतच्च आकरे स्पष्टम्।