पूर्वम्: ६।१।२१२
अनन्तरम्: ६।१।२१४
 
सूत्रम्
मतोः पूर्वमात् संज्ञायां स्त्रियाम्॥ ६।१।२१३
काशिका-वृत्तिः
मतोः पूर्वमात् संज्ञायां स्त्रियाम् ६।१।२१९

मतोः पूर्वः आकार उदात्तो भवति तच् चेन् मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उदुम्बरावती। पुष्करावती। वीरणावती। शरावती। शरादीनां च ६।३।११९ इति दीर्घः। आतिति किम्? इक्षुमती। द्रुमवती। संज्ञायम् इति किम्? खट्वावती। स्त्रियाम् इति किम्? शरावान्। मतोः इति किम्? गवादिनी।
न्यासः
मतोः पूर्वमात्संज्ञायां स्त्रियाम्?। , ६।१।२१३

"उदुम्बरावती" इति। उदुम्बरा अस्यां सन्तीति चातुरर्थिको मतुप्(), "मतौ बह्वचोऽनजिरादीनाम्()" ६।३।११८ इति दीर्घत्वम्()। "शरावती" इति। अत्र "शरादीनाञ्च" ६।३।११९ इति। "मतोरिति किम्? गवादिनी" इति। "मतोः" इत्यस्मिन्ननुच्यमाने तत्सम्बद्धं पूर्वग्रहणमपि नोच्येत, संज्ञाशब्दस्याकारमात्र स्योदात्तत्वं प्रसज्येत। पूर्वग्रहणं मतोरनन्तरस्यास्य यथा स्यात्()। इह मा भूत्()--सानुमतीति। लक्षणप्रतिपदोक्त परिभाषया (व्या।प।३) चेहैव स्यात्()--श्यमावती, उदुम्बरावतीत्यादि न स्यात्()। पूर्वग्रहणात्? पूर्वमात्रस्य भवति॥