पूर्वम्: ६।१।२०३
अनन्तरम्: ६।१।२०५
 
सूत्रम्
नित्यं मन्त्रे॥ ६।१।२०४
काशिका-वृत्तिः
नित्यं मन्त्रे ६।१।२१०

जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यम् आद्युदात्ते भवतः। जुष्टं देवानाम्। अर्पितं पितृ̄णाम्। पूर्वेण अत्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेव अनुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रे ऽपि इच्छन्ति। अन्तोदात्तो ऽपि ह्ययं मन्त्रे पठयते, तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः इति।
न्यासः
नित्यं मन्त्रे। , ६।१।२०४

"केचिदत्र" इत्यादि। किं पुनः कारणं जुष्टशब्द एवावनुवत्र्तयन्ति? इत्याह--"अर्पितशब्दस्य" इत्यादि। अत्रापि किं कारणम्()? इत्याह--"अन्तोदात्तोऽपि" इत्यादि। तमेवान्तोदात्तस्य पाठमन्त्रं दर्शयितुमाह--"तस्मिन्? साकं त्रिशता" इत्यादि। आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणं विस्पष्टार्थम्(), उत्तरार्थं च॥