पूर्वम्: ६।१।१८३
अनन्तरम्: ६।१।१८५
 
सूत्रम्
अनुदात्ते च॥ ६।१।१८४
काशिका-वृत्तिः
अनुदाते च ६।१।१९०

अविद्यमानोदात्ते च लसार्वधातुके परतो ऽभ्यस्तानाम् आदिरुदात्तो भवति। अनजाद्यर्थ आरम्भः। ददाति। जहाति। दधाति। जहीते। मिमीते। अनुदात्ते इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः। मा हि स्म दधात्। दधात्यत्र।
न्यासः
अनुदात्ते च। , ६।१।१८४

अनजाद्यर्थमिदम्()। अजादौ त्वनुदात्ते पूर्वणैव सिद्धम्()। "जिहीते, मिमीते" इति। अत्र "तास्यनुदात्तेत्()" ६।१।१८० इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्()। "भृञामित्()" ७।४।७६ इत्यभ्यासस्येत्त्वम्()। "अनुदात्ते" इति शास्त्रीयस्यानुदात्तस्यायं निर्देश इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तन्निरासार्थमाह--"अनुदात्त ति बहुव्रीहिनिर्देशः" इति अविद्यमानमुदात्तमस्मिन्नित्यनुदात्तम्()। किमर्थं पुनर्बहुव्रीहिनिर्देशः? इत्याह--"लोपपणादेशार्थः" इति। लोपयणादेशयोः कृतयोरप्याद्युदात्तत्वं यथा स्यात्()। "मा हि स्म दधात्()। दधात्यत्र" इति। स्मशब्दस्य प्रयोगः स्मोत्तरे लङ्? यथा स्यात्()। अत्र यदि शास्त्रीयस्यायं निर्देशः स्यात्(), "इतश्च" ३।४।१०० इतीकारलापे कृते यणादेशे चोदात्तं न स्यात्(), शास्त्रीयस्यानुदात्तस्याभावात्()। बहुव्रीहिनिर्देशे चात्रापि भवति; उदात्तस्येहाविद्यमानत्वात्()॥