पूर्वम्: ६।१।१८१
अनन्तरम्: ६।१।१८३
 
सूत्रम्
स्वपादिर्हिंसामच्यनिटि॥ ६।१।१८२
काशिका-वृत्तिः
स्वपादिहिंसाम् अच्यनिटि ६।१।१८८

लसार्वधातुकग्रहणं यदनुवर्तते तदचि अनिटि इति सम्बन्धादिह सप्तम्यन्तम् उपजायते स्वपादिरावृत्करणात्। स्वपादीनां हिंसेश्च अजादवनिटि लसार्वधातुके परतो ऽन्यतरस्याम् आदिरुदात्तो भवति। स्वपन्ति, स्वपन्ति। श्वसन्ति, श्वसन्ति। हिंसेः खल्वपि हिंसन्ति, हिंसन्ति। प्रत्ययस्वरेण पक्षे मध्योदात्तः। अचि इति किम्? स्वप्यात्। हिंस्यात्। अनिटि इति किम्? स्वपितः। श्वसितः। ङित्यजादावयं विधिरिष्यते। इह न भवति, स्वपानि, हिनसानि।
न्यासः
स्वपादिहिंसामच्यनिटि। , ६।१।१८२

"सार्वधातुकग्रहणम्()" इत्यादि। "अचि" इत्येतत्? सप्तम्यन्तं लसार्वधातुकस्य समानाधिकरणं विशषणम्(), न च प्रथमान्तस्य सप्तम्यन्तेन सामानाधिकरण्यमुपपद्यते। तस्मात्? "अचि" इत्यनेन सम्बन्धाद्विविशेषणविशेष्यलक्षणाल्लसार्वधातुकग्रहणादित्याह--"सप्तम्यन्तमुपजायते। "स्वपादिरा वृत्करणात्()" इति। यद्यप्येतदेवम्(), तथापि "ञिष्वप्? शये" (धा।पा।१०६८) "()आस प्राणने" (धा।पा।१०६९), "अन च" (धा।पा।१०७०) इत्येत एव ये, ते इह स्वपादिग्रहणेन गृह्रन्ते। परेऽपि ये जक्षित्यादयोऽभ्यस्तसंज्ञाः, तेषु परत्वात्? "अभ्यस्तानामादिः" ६।१।१८३ इत्यनेन नित्यमाद्युदात्तत्वं भवति। "हिंसन्ति" इति। "तृह हिसि हिंसायाम्()" (धा।पा।१४५५,१४५६), रुधादित्वाच्? श्नम्(), "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः "श्नान्नलोपः" ६।४।२३ इति परस्य नकारस्य। "स्वप्यात्()" इति। लिङ्? अदादित्वाच्छपो लुक्()। "स्वपितः" इति। "रुदादिभ्यः सार्वधातुके" ७।२।७६ इतीट्()॥