पूर्वम्: ६।१।१३९
अनन्तरम्: ६।१।१४१
 
सूत्रम्
गोष्पदं सेवितासेवितप्रमाणेषु॥ ६।१।१४०
काशिका-वृत्तिः
गोष्पदं सेवितासेवितप्रमाणेसु ६।१।१४५

गोष्पदम् इति सुट् निपात्यते, तस्य च षत्वं सेविते असेविते प्रमाने च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते। असेविते अगोष्पदान्यरण्यानि। असेविते गोष्पदशब्दो न सम्भवति इत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं न अर्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविस्यति? सत्यम् एतत्, यत्र तु सेवितप्रसङ्गो ऽस्ति तत्र एव स्यादगोष्पदम् इति, यत्र त्वत्यन्तासम्भव एव तत्र न स्यात्, अगोष्पदान्यरण्यानि इति? असेवितग्रहणात् तत्र अपि भवति। यानि हि महान्त्यरणानि येषु गवाम् अत्यन्तासम्भवस् तान्येवम् उच्यन्ते। प्रमाणे गोस्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। न अत्र गोष्पदं स्वार्थप्रतिपादनार्थम् उपादीयते, किं तर्हि, क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेसु इति किम्? गोः पदम् गोपदम्।
न्यासः
गोष्पदं सेवितासेवितप्रमाणेषु। , ६।१।१४०

"तस्य च षत्वम्()" इति। अनादेशप्रत्ययसकारत्वात्? सुटः षत्वं न प्राप्नोतीत्यतस्तदपि निपात्यते। "गावः पद्यन्ते" इत्यादिना देशस्य सेवितत्वं दर्शयति। "असेविते" इत्यादि। ननु च गोष्पदशब्दः सूत्र उपात्तः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह--"असेविते" इत्यादि। ननु च गोष्पदशब्दः सूत्र उपातः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह--"असेविते" इत्यादि। क्रियते चेदमसेवितग्रहणम्(), न च तत्र गोष्पदशब्दः सम्भवति; तस्मादसेवितेऽगोष्पदार्थं निपातनं विज्ञायते। "यद्येवम्()" इति। यद्यसेवितेऽगोष्पदार्थं निपातनमित्यर्थः। "नार्थ एतेन" इति। असेवितग्रहणेन। कथं तेन विना सिध्यति? इत्याह--"गोष्पदप्रतिषेधात्()"त्यादि। "सत्यमेवैतत्()" इति। गोष्पदपरतिषेधादित्यादि यदुक्तं तस्य सत्यतामाह, न तु "नार्थं एतेन" इत्यस्यार्थः। यदि तर्हि सत्यमेवैतत्()" तत्? किमर्थं सेवितग्रहणमिह क्रियते? इत्याह--"यत्र तु" इत्यादि। नञ्समासेऽगोष्पद इत्येष तत्पुरुषः स्वभावादुत्तरपदर्थसदृशमर्थमाचष्टे" अब्राआहृणवत्()। ततश्च न गोष्पदमगोष्पदमिति तत्पुरुषे कृते यत्र सेवितसय सेवनस्य प्रसङ्गोऽस्ति तत्रैवागोष्पदमित्येतत्? तथापि भवति" इति। अपिशब्दो न केवलं यत्र सेवतप्रसङ्गोऽस्ति तत्रैवागोष्पदमित्यमुमर्थं द्योतयति। कस्मात्()? पुनरत्रासेवितग्रहणात्()। तत्राऽपि भवतीत्यत आह--"यानि हि" इति। "एवम्()" इति। असेवितग्रहणार्थकः प्रकारः प्रत्यवमृश्यते। असेवितग्रहणे हि सति मा भूत्? तस्य वैयथ्र्यमित बहुव्रीहिरयं भावसाधनेनासेवितशब्देन विज्ञास्यते। अविद्यमानं सेवितमस्मिन्निति बहुव्रीहिश्चात्यन्ताभावेऽपि भवतीति येषु गवामत्यन्तासम्भवस्तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। "गोष्पदपूरम्()" इति। "वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्()" ३।४।३२ इति णमुल्()। ननु च गोष्पदमिति षष्ठीसमासोऽयम्(), तस्य च गोसम्बन्धि पदमर्थः, न तु प्रमाणम्(), तत्? कथं गोष्पदमात्रं क्षेत्रमित्यादि उदाहरणं प्रमाणे युज्यतदे? इत्यत आह--"नात्र" इत्यादि। न ह्रत्र स्वार्थप्रतिपादनार्थमेव गोष्पदमित्युपादीयते। किं तर्हि? क्षेत्रादेरियत्तां परिच्छेत्तुम्()। तस्मात्? क्षेत्रादेरियत्ता तेन परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्()। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्()। कुत एतत्()? निपातनसामथ्र्यात्()। निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते॥
बाल-मनोरमा
गोष्पदं सेविताऽसेवितप्रमाणेषु १०४५, ६।१।१४०

गोष्पदमात्रं क्षेत्रमिति। क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते। अतो गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः।

तत्त्व-बोधिनी
गोषपदं सेविताऽसेवितप्रमाणेषु ८७३, ६।१।१४०

गोष्पदम्। असेविते गोष्पदशब्दस्य वृत्तयसंभावान्नञ्पूर्वकमुदाहरति---अगोष्पदानोति। गवां संचारो यत्र नैव संभवति तत्रापि सुडागमार्थमसेवितग्रहणमित्याहुः।