अपरास्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्थाः गच्छन्ति। सन्ततमविच्छेदेन गच्छन्ति इत्यर्थः। क्रियासातत्ये इति किम्? अपरपराः सार्थाः गच्छन्ति। अपरे च परे च सकृदेव गच्छन्ति इत्यर्थः। न अत्र गमनस्य सातत्यप्रबन्धो विवक्षितः। किम् इदं सातत्यम् इति? सततस्य भावः सातत्यम्। कथं सततम्? समस्तते विकल्पेन मकारलोपो विधीयते। लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः।
"अपरस्पराः" इति। अपरे च परे चेति द्वन्द्वः। सन्ततशब्दाद्भावप्रत्यय उत्पन्ने सान्तत्यमिति भवितव्यमित्यभिप्रायेणाय--"किमिदम्()" इत्यादि। सततशब्दादेवायं भावप्रत्य उत्पन्न इति दर्शयन्नाह--"सततस्य भावः" इत्यादि। "कथं सततम्()" इति। एवं मन्यते--समो मकारलोपस्य लक्षणं तावदिह शास्त्रे नास्ति। अथ सातत्य इत्येतदेव निपातनम्(), ततशब्दे परतः समो मकारस्य लोपो भविष्यतीत्यस्यार्थस्य ज्ञापनं कल्प्येत,
एवं सति सन्ततमिति न सिध्यति? इत्यत आह--"समस्तते विकल्पेन" इत्यादि। अयमभिप्रायः--सातत्यशब्दं पूर्वाचार्यलक्षणप्रसिद्धमुच्चारयता पूर्वाचार्यलक्षणमप्याश्रितम्()। अतस्तेन समो मकारस्यात्र लोपो विधीयते। एतञ्च कृत्वाऽवश्यम्प्रभृतीनामपि कृत्यादिषु लोपः सिद्धो भवति। अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति--"लुम्पेत्()" इत्यादि। अन्त्यमिति शेषः।
अवश्यंशब्दस्य कृत्यप्रत्ययान्ते परतो लुम्पेत्? अन्त्यलोपमस्य कुर्यादित्यर्थः। अवश्यकत्र्तव्यम्()। तुमुन्()प्रत्ययान्तस्याप्यान्त्यं लुम्पेत्(), काममनसोश्च शब्दयोः परतः--कर्त्तुं कामोऽस्येति कर्त्तुकामः, हर्त्तु मनोऽस्येति हर्त्तुमनाः।
सम्शब्दस्य चान्त्यं लुम्पेद्विकल्पेन हिततयोः शब्दयोः परतः--सहितम्(), सततम्(), सन्ततम्()। "कुगतिप्रादयः"
२।२।१८ इति समासः।
मांसशब्दस्यान्त्यं लुम्पेत्(),
क्व? पचि।
"डुपचष्? पाके" (धा।पा।
९९६) इत्येतस्मिन्? धातौ।
किं विशिष्टे? "युङ्घञोः" इति। ल्युटि घञि च प्रत्यये परतो यः पचिस्तस्मिन्नित्यर्थः। अत्रापि वाग्रहणं सम्बध्यते। मांस्पचनम्(), मांसपचनम्()। मांस्पाकः, मांसपाकः। "कृद्योगा च षष्ठी समस्यते" (वा।८६) इति समासः। समासेऽयं लोपः पूर्वाचार्याणामभिप्रायः, संहितायां च। तेन वाक्ये विच्छिद्यपाठे न भवति॥