पूर्वम्: ६।१।१३७
अनन्तरम्: ६।१।१३९
 
सूत्रम्
कुस्तुम्बुरूणि जातिः॥ ६।१।१३८
काशिका-वृत्तिः
कुस्तुम्बुरूणि जातिः ६।१।१४३

कुस्तुम्बुरूणि इति सुट् निपात्यते जातिश्चेद् भवति। कुस्तुम्बुरुर्नामौषधिजातिः धान्यकम्। तत्फलान्यपि कुसुम्बुरुणि सूत्रनिर्देशे नपुंसकमविवक्षितम्। जातिः इति किम्? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देन तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा।
न्यासः
कुस्तुस्बुरूणि जातिः। , ६।१।१३८

ननु च सूत्रे नपुंसकलिङ्गेन निर्देशान्नपुंसकलिङ्गतायां फलजातावेव भवितव्यम्(), नान्यलिङ्गतायाम्(), औषधजातौ बहुवचन एव भवितव्यम्(), नान्यत्र, बहुवचनेन निर्देशात्(); तत्? कथं कुस्तुम्बुवरित्यत्र पुल्लिङ्गतयामेकवचने च भवति? इत्यत आह--"सूत्रनिर्देशे" इत्यादि। नपुंसकग्रहणमुपलक्षणमात्रम्()। बहुवचनमपि ह्रतन्त्रमेव सूत्रे। तथा चोक्तम्()--"सूत्रे [सूत्रनिर्देशे नपुंसकलिङ्गमविवक्षितम्()--काशिका। पदमंजरी च] लिङ्गवचनमतन्त्रम्? "तस्याविवक्षितत्वात्()" [नास्ति--काशिका] इति॥
बाल-मनोरमा
कुस्तुम्बुरूणि जातिः १०४३, ६।१।१३८

अथ "सुट् कात्पूर्वः" इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते-कुस्तुम्बुरूणि। अत्रेति। जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः। कुस्तुम्बुरुर्धान्याकमिति। गुल्मविशेषे प्रसिद्धः। क्लीबत्वमतन्त्रमिति। अविवक्षितमित्यर्थः। वचनमप्यतन्त्रमिति बोध्यम्। कुतुम्बुरूणीति। धान्याकजातिवाचकत्वाऽभावान्न सुडिति भावः। तदाह--कुत्सितानि तिन्दुकीफलानीत्यर्थ इति तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः।