पूर्वम्: ६।१।११५
अनन्तरम्: ६।१।११७
 
सूत्रम्
अनुदात्ते च कुधपरे॥ ६।१।११६
काशिका-वृत्तिः
अनुदात्ते च कुधपरे ६।१।१२०

यजुषि इत्येव। अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ् प्रकृत्या भवति। अयं सो अग्निः। अयं सो अध्वरः। अनुदात्ते इति किम्? अधोग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपरे इति किम्? सो ऽयम् अग्निः सहस्रियः।
न्यासः
अनुदात्ते च कुधपरे। , ६।१।११६

"कुधपरे" इति। अकारविशेषममेतत्()। कुधौ परौ यस्मात्? स तथोक्तः। धकारेऽकार उच्चारणार्थः। "अयं सो अग्निः" इति। अग्निशब्दः "अङ्गेर्निर्नलोपश्च" [अङ्गेर्नलोपश्च--द।उ।] (द।उ।१।२०) इति निप्रत्ययान्तो व्युत्पादित इति प्रत्ययस्वरेणान्तोदात्तः, शषोऽनुदात्त इत्यकारस्यानुदात्तत्वम्()। "अयं सो अध्वरः" इति। अध्वरशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, तदादिरप्यकारोऽनुदात्त एव। "आद्युदात्तो निपात्यते" इति। ऋडज्त्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुकरशुक्लगौरवनरेरामलाः (द।उ।८।४६) इत्यनेन। "सोऽयम्()" इति। अयंशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, तस्यादिरनुदात्तः॥