पूर्वम्: ५।४।७७
अनन्तरम्: ५।४।७९
 
सूत्रम्
ब्रह्महस्तिभ्याम् वर्च्चसः॥ ५।४।७८
काशिका-वृत्तिः
ब्रह्महस्तिभ्यां वर्चसः ५।४।७८

ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस् तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्। पल्यराजभ्यां च इति वक्तव्यम्। पल्यवर्चसम्। राजवर्चसम्।
न्यासः
ब्राहृहस्तिभ्यां वर्चसः। , ५।४।७८

"ब्राहृवर्चसम्(), हस्तिवर्चसम्()" इति। षष्ठीसमासौ। वर्चःशब्दोऽयं दीप्तिवचनः। "पल्यराजशब्दाभ्याञ्चेति वक्तव्यम्()" ["पल्यराजभ्याम्()--काशिका] (इति)। पल्यशब्दाद्राजशब्दाच्च परो यो वर्चस्()शब्दस्तस्माच्चाज्भवतीत्येवमर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चास्य पूर्वमेव योगविभागमाश्रित्य कत्र्तव्यम्()॥
बाल-मनोरमा
ब्राहृहस्तिभ्यां वर्चसः ९३३, ५।४।७८

ब्राहृ। शेषपूरणेन सूत्रं व्याचष्टे--अच्स्यादिति। ब्राहृवर्चसमिति। ब्राहृणो वर्च इति विग्रहः। हस्तिवर्चसमिति। हस्तिनो वर्च इति विग्रहः।

पल्यराजभ्यामिति। आभ्यां परो यो वर्चश्शब्दस्मादपि अजिति वक्तव्यमित्यर्थः। पल्यवर्चसमिति। पलं मांसं, तदर्हति पल्यः। मांसभोजीत्यर्थः। तस्य वर्च इति विग्रहः। राजवर्चसमिति। राज्ञां वर्च इति विग्रहः।

तत्त्व-बोधिनी
ब्राहृहस्तिभ्यां वर्चसः ८०९, ५।४।७८

ब्राहृवर्चसमिति। षष्ठीतत्पुरुषः। एवं हस्तिवर्चसमपि।

पल्यराजभ्यां चेतिवक्तव्यम्। पल्येति। पलं मांसमर्हती"ति पल्यो मांसभोजी, तदीयं वर्चः--पल्यवर्चसम्।